याज्ञवल्क्योक्तेस्तात्पर्यमाह —
ब्रह्मलोका इति ।
इत्यभीष्टमागमविदामित्यध्याहृत्याऽऽद्यस्येतिशब्दस्य योजना । प्रश्नान्तरं सूत्रविषयं गौतमवाक्यम् ।
वैशब्दार्थमाह —
नान्यदिति ।
सूक्ष्मत्वे दृष्टान्तमाह —
अकाशवदिति ।
वायुमेव विशिनाष्टि —
यदात्मकमिति ।
पञ्च भूतानि दश बाह्यानीन्दियाणि पञ्चवृत्तिः प्राणश्चतुर्विधमन्तःकरणमिति सप्तदशविधत्वम् ।
कर्मणां वासनानां चोत्तरसृष्टिहेतूनां प्राणिभिरर्जितानामाश्रयत्वादपेक्षितमेव लिङ्गमित्याह —
कर्मेति ।
तस्यैव सामान्यविशेषात्मना बहुरूपत्वमाह —
यत्तदिति ।
तस्यैव लोकपरीक्षकप्रसिद्धत्वमाह —
यस्येति ।
तस्य सूत्रत्वं साधयति —
वायुनेति ।
प्रसिद्धमेतत्सूत्रविदामिति शेषः ।
लौकिकीं प्रसिद्धिमेव प्रश्नपूर्वकमनन्तरश्रुत्यवष्टम्भेन स्पष्टयति —
कथमित्यादिना ।
उक्तमेव दृष्टान्तेन व्यनक्ति —
सूत्रेत्यादिना ।
वायोः सूत्रत्वे सिद्धे फलितमाह —
अत इति ॥२॥