नियन्तुरीश्वरस्य लौकिकनियन्तृवत्कार्यकरणवत्त्वमाशङ्क्याऽऽह —
यस्य चेति ।
पृथिव्याः शरीरत्वमेव न तु शरीरवत्त्वमित्याशङ्क्याऽऽह —
पृथिवीति ।
पृथिव्या यत्करणं तदेव तस्य करणं चेति योजना ।
कथं पृथिव्याः शरीरेन्द्रियवत्त्वं तदाह —
स्वकर्मेति ।
अन्तर्यामिणोऽपि तथा किं नस्यात्तत्राऽऽह —
तदस्येति ।
अस्यान्तर्यामिणस्तदेव कार्यं करणं च नान्यदित्यत्र हेतुमाह —
स्वकर्मेति ।
तदेव हेत्वन्तरेण स्फोरयति —
परार्थेति ।
यः पृथिवीमित्यादिवाक्यस्य तात्पर्यमाह —
देवतेति ।
तत्र वाक्यमवतार्य व्याचष्टे —
य ईदृगिति ।
नियम्यपृथिवीदेवताकार्यकरणाभ्यामेव कार्यकरणवत्त्वमीदृशत्वम् ॥३॥४॥५॥६॥७॥८॥९॥१०॥११॥१२॥१३॥