बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन ॥ ८ ॥
तद्दोषद्वयमपि परिजिहीर्षन्नाह — स होवाच याज्ञवल्क्यः ; एतद्वै तत् , यत्पृष्टवत्यसि — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ; किं तत् ? अक्षरम् — यन्न क्षीयते न क्षरतीति वा अक्षरम् — तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदः अभिवदन्ति ; ब्राह्मणाभिवदनकथनेन, नाहमवाच्यं वक्ष्यामि न च न प्रतिपद्येयमित्येवं दोषद्वयं परिहरति । एवमपाकृते प्रश्ने, पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम् — ब्रूहि किं तदक्षरम् , यद्ब्राह्मणा अभिवदन्ति — इत्युक्त आह — अस्थूलम् तत् स्थूलादन्यत् ; एवं तर्ह्यणु — अनणु ; अस्तु तर्हि ह्रस्वम् — अह्रस्वम् ; एवं तर्हि दीर्घम् — नापि दीर्घम् अदीर्घम् ; एवमेतैश्चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्धः, न द्रव्यं तदक्षरमित्यर्थः । अस्तु तर्हि लोहितो गुणः — ततोऽप्यन्यत् अलोहितम् ; आग्नेयो गुणो लोहितः ; भवतु तर्ह्यपां स्नेहनम् — न अस्नेहम् ; अस्तु तर्हि छाया — सर्वथापि अनिर्देश्यत्वात् छायाया अप्यन्यत् अच्छायम् ; अस्तु तर्हि तमः — अतमः ; भवतु वायुस्तर्हि — अवायुः ; भवेत्तर्ह्याकाशम् — अनाकाशम् ; भवतु तर्हि सङ्गात्मकं जतुवत् — असङ्गम् ; रसोऽस्तु तर्हि — अरसम् ; तथा गन्धोऽस्तु — अगन्धम् ; अस्तु तर्हि चक्षुः — अचक्षुष्कम् , न हि चक्षुरस्य करणं विद्यते, अतोऽचक्षुष्कम् , ‘पश्यत्यचक्षुः’ (श्वे. ३ । १९) इति मन्त्रवर्णात् ; तथा अश्रोत्रम् , ‘स शृणोत्यकर्णः’ (शे. ३ । १९) इति ; भवतु तर्हि वाक् — अवाक् ; तथा अमनः, तथा अतेजस्कम् अविद्यमानं तेजोऽस्य तत् अतेजस्कम् ; न हि तेजः अग्न्यादिप्रकाशवत् अस्य विद्यते ; अप्राणम् — आध्यात्मिको वायुः प्रतिषिध्यतेऽप्राणमिति ; मुखं तर्हि द्वारं तत् — अमुखम् ; अमात्रम् — मीयते येन तन्मात्रम् , अमात्रम् मात्रारूपं तन्न भवति, न तेन किञ्चिन्मीयते ; अस्तु तर्हि च्छिद्रवत् — अनन्तरम् नास्यान्तरमस्ति ; सम्भवेत्तर्हि बहिस्तस्य — अबाह्यम् ; अस्तु तर्हि भक्षयितृ तत् — न तदश्नाति किञ्चन ; भवेत् तर्हि भक्ष्यं कस्यचित् — न तदश्नाति कश्चन । सर्वविशेषणरहितमित्यर्थः । एकमेवाद्वितीयं हि तत् — केन किं विशिष्यते ॥

अप्रतिपत्तिर्विप्रतिपत्तिश्चेति दोषद्वयं सामान्येनोक्तं विशेषतो ज्ञातुं पृच्छति —

किं तदिति ।

अस्थूलादिवाक्यमवतार्य व्याकरोति —

एवमित्यादिना ।

‘यदग्ने रोहितं रूपम्’ इत्यादिश्रुतिमाश्रित्याऽऽह —

आग्नेय इति ।

अवायुविशेषणेनाप्राणाविशेषणस्य पुनरुक्तिमाशङ्क्याऽऽह —

आध्यात्मिक इति ।

अमात्रमिति मानमेयान्वयो निराक्रियते । तस्येत्यात्मोक्तिः ।

संपिण्डितमर्थमाह —

सर्वेति ।

तदुपपादयति —

एकमिति ॥८॥