अथ यथोक्तया नीत्या श्रुत्यैवाक्षरास्तित्वे ज्ञापिते वक्तव्याभावात्किमुत्तरेण ग्रन्थेनेति तत्राऽऽह —
अनेकेति ।
यदस्ति तत्सविशेषणमेवेति लौकिकी बुद्धिः । आशङ्क्यते नास्त्यक्षरं निर्विशेषणमिति शेषः । अन्तर्यामिणि जगत्कारणे परस्मिन्ननुमानसिद्धे विवक्षितं निरुपाध्यक्षरं सेत्स्यति जगत्कारणत्वस्योपलक्षणतया जन्मादिसूत्रे स्थितत्वादुपलक्षणद्वारा ब्रह्मणि स्वरूपलक्षणप्रवृत्तेरन्तर्यामिण्यनुमा प्रकृतोपयुक्तेति भावः ।
अनुमानश्रुत्यक्षराणि व्याकरोति —
यदेतदिति ।
प्रशासने सूर्याचन्द्रमसौ विधृतौ स्यातामिति संबन्धः ।
उक्तमर्थं दृष्टान्तेन स्फोरयति —
यथेति ।
अत्रापि पूर्ववदन्वयः । जगद्व्यवस्था प्रशासितृपूर्विका व्यवस्थात्वाद्राज्यव्यवस्थावदित्यर्थः ।
सूर्याचन्द्रमसावित्यादौ विवक्षितमनुमानमाह —
सूर्यश्चेत्यादिना ।
तादर्थ्येन लोकप्रकाशार्थत्वेन । प्रशासित्रा निर्मिताविति संबन्धः ।
निर्मातुर्विशिष्टविज्ञानवत्त्वमाचष्टे —
ताभ्यां निर्वर्त्यमानेति ।
सूर्यचन्द्रमसौ तच्छब्दवाच्यौ । विमतौ विशिष्टविज्ञानवता निर्मितौ प्रकाशत्वात्प्रदीपवदित्यर्थः ।
विमतौ नियन्तृपूर्वकौ विशिष्टचेष्टावत्त्वाद्भृत्यादिवदित्यभिप्रेत्याऽऽह —
विधृताविति ।
प्रकाशोपकारकत्वं तज्जनकत्वं निर्मातुर्विशिष्टविज्ञानसंभावनार्थं साधारणेति विशेषणं साधारणः सर्वेषां प्राणिनां यः प्रकाशस्तस्य जनकत्वादिति यावत् । दृष्टान्ते लौकिकविशेषणं प्रासादादिविशिष्टदेशनिविष्टत्वसिद्ध्यर्थम् ।
अनुमानफलमुपसंहरति —
तस्मादिति ।
विशिष्टचेष्टावत्त्वादित्युपदिष्टं हेतुं स्पष्टयति —
नियतेति ।
नियतौ देशकालौ नियतं च निमित्तं प्राण्यदृष्टं तद्वन्तौ सूर्याचन्द्रमसावुद्यन्तावस्तं यन्तौ च येन विधृतावुदयास्तमयाभ्यां वृद्धिक्षयाभ्यां च वर्तेते । उदयश्चास्तमयश्चोदयास्तमयं वृद्धिश्च क्षयश्च वृद्धिक्षयमिति द्वन्द्वं गृहीत्वा द्विवचनम् । एवं कर्तृत्वेन विधारयितृत्वेन चेत्यर्थः ।
विमते प्रयत्नवता विधृते सावयवत्वेऽप्यस्फुटितत्वाद्गुरुत्वेऽप्यपतितत्वात्संयुक्तत्वेऽप्यवियुक्तत्वाच्चेतनावत्त्वेऽप्यस्वतन्त्रत्वाच्च हस्तन्यस्तपाषाणादिवदिति द्वितीयपर्यायस्य तात्पर्यमाह —
सावयवत्त्वादित्यादिना ।
किमित्येतस्य प्रशासने द्यावापृथिव्यौ वर्तेते तत्राऽऽह —
एतद्धीति ।
पृथिव्यादिव्यवस्था नियन्तारं विनाऽनुपपन्ना तत्कल्पिकेत्यर्थः ।
तथाऽपि किमित्येतेन विधृते द्यावापृथिव्याविति तत्राऽऽह —
सर्वमर्यादेति ।
‘एष सेतुर्विधरणः’ इति श्रुत्यन्तरमाश्रित्य फलितमाह —
अतोनास्येति ।
द्वितीयपर्यायार्थमुपसंहरति —
तस्मादिति ।
तच्छब्दोपात्तमर्थं स्फोरयति —
अव्यभिचारीति ।
अव्यभिचारित्वं प्रकटयति —
चेतनावन्तमिति ।
पृथिव्यादेर्नियतत्वमेतच्छब्दार्थः ।
नियन्तृसिद्धावपि कथमीश्वरसिद्धिरित्याशङ्क्याऽऽह —
येनेति ।
उग्रत्वं पृथिव्यादेश्चेतनावदभिमानिदेवतावत्त्वेन स्वातन्त्र्यम् । ‘येन स्वस्तभितं येन नाको यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम’ इत्यत्र हिरण्यगर्भाधिष्ठातेश्वरः पृथिव्यादेर्नियन्तोच्यते । न हि हिरण्यगर्भमात्रस्यास्मिन्प्रकरणे पूर्वापरग्रन्थयोरुच्यमानं निरङ्कुशं सर्वनियन्तृत्वं संभवतीति भावः । एते कालावयवा विधृतास्तिष्ठन्तीति संबन्धः ।
तत्रानुमानं वक्तुं हेतुमाह —
सर्वस्येति ।
यः कलयिता स नियन्तृपूर्वक इति व्याप्तिभूमिमाह —
यथेति ।
दार्ष्टान्तिकं दर्शयन्ननुमानमाह —
तथेति ।
निमेषादयो नियन्तृपूर्वकाः कलयितृत्वात्संप्रतिपन्नवदित्यर्थः ।
कास्ता नद्य इत्यपेक्षायामाह —
गङ्गाद्या इति ।
अन्यथा प्रवर्तितुमुत्सहमानत्वं तत्तद्देवतानां चेतनत्वेन स्वातन्त्र्यम् । विमता नियन्तृपूर्विका नियतप्रवृत्तित्वाद्धृत्यादिप्रवृत्तिवदिति चतुर्थपर्यायार्थः । नियतप्रवृत्तिमत्त्वं तदेतदित्युच्यते । तच्चेत्यव्यभिचारितोक्तिः ।
विमतं विशिष्टज्ञानवद्दातृकं कर्मफलत्वात्सेवाफलवदित्यभिप्रेत्य पञ्चमं पर्यायमुत्थापयति —
किं चेति ।
दाता प्रतिग्रहीता दानं देयं वा फलं दास्यति किमीश्वरेणेत्याशङ्क्याऽऽह —
तत्रेति ।
दात्रादीनामिहैव प्रत्यक्षो नाशो दृश्यते तेन तत्प्रयुक्तो दृष्टः । पुरुषार्थो न कश्चिदस्तीत्यर्थः ।
अदृष्टं पुरुषार्थं प्रत्याह —
अदृष्टस्त्विति ।
समागमः फलप्रतिलाभः स खल्वैहिको न भवति किन्तु पारलौकिकस्तथा च नासाविहैव नष्टदात्रादिप्रयुक्तः संभवतीत्यर्थः ।
तर्हि फलदातुरभावात्स्वार्थभ्रंशो हि मूर्खतेति न्यायाद्दातृप्रशंसैव मा भूदित्याशङ्क्याऽऽह —
तथाऽपीति ।
फलसंयोगदृष्टौ हेतुमाह —
प्रमाणज्ञतयेति ।
‘हिरण्यदा अमृतत्वं भजन्ते’ इत्यादि प्रमाणम् ।
तथाऽपि कथमीश्वरसिद्धिस्तत्राऽऽह —
कर्तुरिति ।
तद्धि दातृप्रशंसनं विशिष्टे नियन्तर्यसत्यनुपपन्नं तत्कल्पकमित्यर्थः ।
दानक्रियावशादेव तत्फलसिद्धौ कृतं नियन्त्रेति चेन्नेत्याह —
दानेति ।
कर्मणः क्षणिकत्वात्फलस्य च कालान्तरभावित्वान्न साधनत्वोपपत्तिरित्यर्थः ।
अनुमानार्थापत्तिभ्यां सिद्धमर्थमुपसंहरति —
तस्मादिति ।
अपूर्वस्यैव फलदातृत्वात्कृतमीश्वरेणेति शङ्कते —
अपूर्वमिति चेदिति ।
स्वयमचेतनं चेतनानधिष्ठितं चापूर्वं फलदातृ न कल्प्यमप्रामाणिकत्वादिति परिहरति —
नेति ।
ईश्वरद्वेषी शङ्कते —
प्रशास्तुरिति ।
सद्भावे प्रमाणानुपपत्तिरिति शेषः ।
परिहरति —
नाऽऽगमेति ।
कथं कार्यपरस्याऽऽगमस्य वस्तुपरत्वमित्याशङ्क्याऽऽह —
अवोचामेति ।
कर्मविधिर्हि फलदात्रतिरेकेण नोपपद्यते न च कर्माऽऽशुतरविनाशि कालान्तरभाविफलानुकूलं तदर्थापत्तिसिद्धेऽपूर्वे कथं मानासिद्धिरित्याशङ्क्याऽऽह —
किञ्चेति ।
न केवलं सद्भावे प्रमाणासत्त्वमेवापूर्वे दूषणं किन्त्वन्यच्च किञ्चिदस्तीति यावत् ।
तदेव प्रकटयति —
अपूर्वेति ।
अपूर्वस्य कल्पनायां याऽर्थापत्तिः शङ्क्यते तस्याः कल्पितमपूर्वमन्तरेणाप्युपपत्तेः क्षयः स्यादिति योजना ।
अन्यथाऽप्युपपत्तिं विवृणोति —
सेवेति ।
यागादिफलमपीश्वरात्संभवतीति शेषः ।
कथमीश्वराधीना यागादिफलप्राप्तिस्तत्राऽऽह —
सेवायाश्चेति ।
आदिपदेनेन्द्रादिदेवता गृह्यन्ते । विमता विशिष्टज्ञानवता दीयमानफलवती विशिष्टक्रियात्वात्संप्रतिपन्नवदिति भावः ।
इतश्चापूर्वकल्पना न युक्तेत्याह —
दृष्टेति ।
दृष्टं सेवाया धर्मत्वेन सामर्थ्यं सेव्यात्फलप्रापकत्वं तदनुसृत्य दानादौ फलप्राप्तिसंभवे तन्निरासेनापूर्वात्तत्कल्पना न न्याय्या दृष्टानुसारिण्यां कल्पनायां तद्विरोधिकल्पनायोगादित्यर्थः ।
अपूर्वस्य फलहेतुत्वे दोषान्तरमाह —
कल्पनेति ।
तदाधिक्यं वक्तुं परामृशति —
ईश्वर इति ।
नापूर्वं कल्प्यं क्लृप्तत्वात्तन्न कल्पनाधिक्यमित्याशङ्क्याऽऽह —
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः ।
भूमिकां कृत्वा कल्पनाधिक्यं स्फुटयति —
तत्रेत्यादिना ।
अपूर्वस्यादृष्टत्वे सतीति यावत् । इति कल्पनाधिक्यमिति शेषः ।
त्वन्मतेऽपि तुल्या कल्पनेत्याशङ्क्याऽऽह —
इह त्विति ।
स्वपक्षे धर्मिमात्रं कल्प्यं परपक्षे धर्मी धर्मश्चेत्याधिक्यं तस्मात्फलमत उपपत्तेरिति न्यायेन परस्यैव फलदातृतेति भावः ।
धर्मिणोऽपि प्रामाणिकत्वं न कल्प्यत्वमित्यभिप्रेत्याऽऽह —
अनुमानं चेति ।
ईश्वरास्तित्वे हेत्वन्तरमाह —
तथा चेति ।
देवा यजमानमन्वायत्ता इति संबन्धः । जीवनार्थे जीवनं निमित्तीकृत्येति यावत् । देवानामीश्वराणामपि हव्यर्थित्वेन मनुष्याधीनत्वाख्यहीनवृत्तिभाक्त्वं नियन्तृकल्पकमित्यर्थः । यो न कस्यचित्प्रकृतित्वेन विकृतित्वेन वा वर्तते स दर्वीहोमः ॥९॥