बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११ ॥
तद्वा एतदक्षरं गार्गि अदृष्टम् , न केनचिद्दृष्टम् , अविषयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात् । तथा अश्रुतं श्रोत्राविषयत्वात् , स्वयं श्रोतृ श्रुतिस्वरूपत्वात् । तथा अमतं मनसोऽविषयत्वात् स्वयं मन्तृ मतिस्वरूपत्वात् । तथा अविज्ञातं बुद्धेरविषयत्वात् , स्वयं विज्ञातृ विज्ञानस्वरूपत्वात् । किं च नान्यत् अतः अस्मादक्षरात् अस्ति — नास्ति किञ्चिद्द्रष्टृ दर्शनक्रियाकर्तृ ; एतदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र । तथा नान्यदतोऽस्ति श्रोतृ ; तदेवाक्षरं श्रोतृ सर्वत्र । नान्यदतोऽस्ति मन्तृ ; तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण । नान्यदतोऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानम् अन्यद्वा । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः अशनायादिसंसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च — एषा परा काष्ठा, एषा परा गतिः, एतत्परं ब्रह्म, एतत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम् ॥

इतश्चाक्षरस्य नाचेतनत्वमित्याह —

किञ्चेति ।

नास्तीत्यन्वयप्रदर्शनम् ।

अतोऽन्यदिति विशेषणसिद्धमर्थमाह —

एतदिति ।

अन्यद्वा पूर्वोक्तमव्याकृतादिपृथिव्यन्तं निगमनवाक्यमुदाहृत्य तस्य तात्पर्यमाह —

एतस्मिन्निति ।

परा काष्ठा परं पर्यवसानं नास्मादुपरिष्टादधिष्ठानं किञ्चिदस्तीत्यर्थः ।

तस्यैव परमपुरुषार्थत्वमाह —

एषेति ।

‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति हि श्रुत्यन्तरम् ।

ब्रह्मास्मादक्षरादन्यदस्तीति चेन्नेत्याह —

एतदिति ।

ननु चतुर्थे सत्यस्य सत्यं ब्रह्म व्याख्यातमक्षरं तु नैवमिति चेत्तत्राऽऽह —

एतत्पृथिव्यादेरिति ॥११॥