बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥
सा होवाच — हे ब्राह्मणा भगवन्तः शृणुत मदीयं वचः ; तदेव बहुमन्येध्वम् ; किं तत् ? यदस्मात् याज्ञवल्क्यात् नमस्कारेण मुच्येध्वम् — अस्मै नमस्कारं कृत्वा, तदेव बहुमन्यध्वमित्यर्थः ; जयस्त्वस्य मनसापि नाशंसनीयः, किमुत कार्यतः ; कस्मात् ? न वै युष्माकं मध्ये जातु कदाचिदपि इमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता । प्रश्नौ चेन्मह्यं वक्ष्यति, न वै जेता भविता — इति पूर्वमेव मया प्रतिज्ञातम् ; अद्यापि ममायमेव निश्चयः — ब्रह्मोद्यं प्रति एतत्तुल्यो न कश्चिद्विद्यत इति । ततो ह वाचक्नव्युपरराम ॥

किं तद्वचनं तदाह —

तदेवेति ।

बहुमानविषयभूतं वस्तु पृच्छति —

किं तदिति ।

यदादौ मदीयं वचनं तदेव बहुमानयोग्यमित्याह —

यदिति ।

तद्व्याकरोति —

अस्मा इति ।

नमस्कारं कृत्वाऽस्मादनुज्ञां प्राप्येति शेषः । तदेवेति प्राथमिकवचनोक्तिः ।

किमिति त्वदीयं पूर्वं वचो बहु मन्यामहे जेतुं पुनरिममाशास्महे नेत्याह —

जयस्त्विति ।

तत्र प्रश्नपूर्वकं पूर्वोक्तमेव बहुमानविषयभूतं वाक्यमवतार्य व्याचष्टे —

कस्मादित्यादिना ।

पराजिताया गार्ग्या वचो नोपादेयमित्याशङ्क्याऽऽह —

प्रश्नौ चेदिति ।

ततश्च प्रश्ननिर्णयाद्याज्ञवल्क्यस्याप्रकम्प्यत्वं प्रतिपाद्य ब्राह्मणान्प्रति हितं चोक्त्वेत्यर्थः ।