बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥
अत्र अन्तर्यामिब्राह्मणे एतदुक्तम् — यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदुरिति च, यमन्तर्यामिणं न विदुः, ये च न विदुः, यच्च तदक्षरं दर्शनादिक्रियाकर्तृत्वेन सर्वेषां चेतनाधातुरित्युक्तम् — कस्तु एषां विशेषः, किं वा सामान्यमिति । तत्र केचिदाचक्षते — परस्य महासमुद्रस्थानीयस्य ब्रह्मणः अक्षरस्य अप्रचलितस्वरूपस्य ईषत्प्रचलितावस्था अन्तर्यामी ; अत्यन्तप्रचलितावस्था क्षेत्रज्ञः, यः तं न वेद अन्तर्यामिणम् ; तथा अन्याः पञ्चावस्थाः परिकल्पयन्ति ; तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति । अन्ये अक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च । अन्ये तु अक्षरस्य विकारा इति वदन्ति । अवस्थाशक्ती तावन्नोपपद्येते, अक्षरस्य अशनायादिसंसारधर्मातीतत्वश्रुतेः ; न हि अशनायाद्यतीतत्वम् अशनायादिधर्मवदवस्थावत्त्वं च एकस्य युगपदुपपद्यते ; तथा शक्तिमत्त्वं च । विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे । तस्मात् एता असत्याः सर्वाः कल्पनाः । कस्तर्हि भेद एषाम् ? उपाधिकृत इति ब्रूमः ; न स्वत एषां भेदः अभेदो वा, सैन्धवघनवत् प्रज्ञानघनैकरसस्वाभाव्यात् , ‘अपूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इति च श्रुतेः — ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति च आथर्वणे । तस्मात् निरुपाधिकस्य आत्मनो निरुपाख्यत्वात् निर्विशेषत्वात् एकत्वाच्च ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति व्यपदेशो भवति ; अविद्याकामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जीव उच्यते ; नित्यनिरतिशयज्ञानशक्त्युपाधिरात्मा अन्तर्यामी ईश्वर उच्यते ; स एव निरुपाधिः केवलः शुद्धः स्वेन स्वभावेन अक्षरं पर उच्यते । तथा हिरण्यगर्भाव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाधिभिर्विशिष्टः तदाख्यः तद्रूपो भवति । तथा ‘तदेजति तन्नैजति’ (ई. उ. ५) इति व्याख्यातम् । तथा ‘एष त आत्मा’ (बृ. उ. ३ । ४ । १), (बृ. उ. ३ । ५ । १) ‘एष सर्वभूतान्तरात्मा’ (मु. उ. २ । १ । ४) ‘एष सर्वेषु भूतेषु गूढः’ (क. उ. १ । ३ । १२) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहमेवेदं सर्वम्’ (छा. उ. ७ । २५ । १) ‘आत्मैवेदं सर्वम्’ ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतयो न विरुध्यन्ते । कल्पनान्तरेषु एताः श्रुतयो न गच्छन्ति । तस्मात् उपाधिभेदेनैव एषां भेदः, नान्यथा, ‘एकमेवाद्वितीयम्’ इत्यवधारणात्सर्वोपनिषत्सु ॥

अन्तर्यामी क्षेत्रज्ञोऽक्षरमित्येतेषामवान्तरविशेषप्रदर्शनार्थं प्रकृतत्वं दर्शयति —

अत्रान्तर्यामीति ।

तत्रान्तर्यामिणः प्रकृतत्वं प्रकटयति —

यमिति ।

क्षेत्रज्ञस्य प्रकृतत्वं स्फुटयति —

ये चेति ।

अक्षरस्य प्रस्तुतत्वं प्रत्याययति —

यच्चेति ।

सर्वेषां विषयाणां दर्शनश्रवणादिक्रियाकर्तृत्वेन चेतनाधातुरिति यत्तदक्षरमुक्तमित्यन्वयः ।

तेषु विचारमवतारयति —

कस्त्विति ।

तस्मिन्विचारे स्वयूथ्यमतमुत्थापयति —

तत्रेति ।

क्षेत्रज्ञस्याप्रस्तुतत्वशङ्कां वारयति —

यस्तमिति ।

यथा परस्याऽऽत्मनोऽन्तर्यामी जीवश्चेत्यवस्थे द्वे कल्प्येते तथा तस्यैवान्याः पञ्चावस्थाः पिण्डो जातिर्विराट् सूत्रं दैवमित्येवंलक्षणा महाभूतसंस्थानभेदेन कल्पयन्तीत्याह —

तथेति ।

उक्तरीत्या कल्पनायां पिण्डो जातिर्विराट् सूत्रं दैवमव्याकृतं साक्षी क्षेत्रज्ञश्चेत्यष्टावस्था ब्रह्मणो भवन्तीति वदन्तः परिकल्पयन्तीति संबन्धः ।

अवस्थापक्षमुक्त्वा शक्तिपक्षमाह —

अन्य इति ।

तुशब्देनावयवपक्षं दर्शयन्विकारपक्षं निक्षिपति —

अन्ये त्विति ।

तत्र पक्षद्वयं प्रत्याह —

अवस्थेति ।

अन्तर्यामिप्रभृतीनामिति शेषः ।

तस्य सांसारिकधर्मातीतत्वश्रुतावपि कथमवस्थावत्त्वं शक्तिमत्त्वं वा न सिध्यतीत्याशङ्क्याऽऽह —

न हीति ।

अवशिष्टपक्षद्वयनिराकरणं प्रागेव प्रवृत्तं स्मारयति —

विकारेति ।

परपक्षनिराकरणमुपसंहरति —

तस्मादिति ।

परकीयकल्पनासंभवे पृच्छति —

कस्तर्हीति ।

उत्तरमाह —

उपाधीति ।

आत्मनि स्वतो विशेषाभावे हेतुमाह —

सैन्धवेति ।

तत्रैव हेत्वन्तरमाह —

अपूर्वमिति ।

बाह्यं कार्यमाभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन सत्तास्फूर्तिप्रदतया वर्तते ब्रह्म स्वभावतस्तु जन्मादिसर्वविक्रियाशून्यं कूटस्थं तदित्याथर्वणश्रुतेरर्थः ।

आत्मानि स्वतो विशेषानवगमे फलितमाह —

तस्मादिति ।

निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । तत्र निर्विशेषत्वमेकत्वं च हेतुः । निरुपाधिकस्येति निर्विशेषत्वं साधयितुमुक्तम् । तत्र च वीप्सावाक्यं प्रमाणं कृतम् ।

कथं पुनरेवंविधस्य वस्तुनः संसारित्वं तदाह —

अविद्येति ।

तैर्विशिष्टं यत्कार्यकरणं तेनोपाधिनोपहितः परमात्मा जीवस्संसारीति च व्यपदेशभाग्भवतीत्यर्थः ।

तथाऽपि कथं तस्यान्तर्यामित्वं तदाह —

नित्येति ।

नित्यं निरतिशयं सर्वत्राप्रतिबद्धं ज्ञानं तस्मिन्सत्त्वपरिणामे सत्त्वप्रधाना मायाशक्तिरुपाधिस्तेन विशिष्टः सन्नात्मेश्वरोऽन्तर्यामीति चोच्यत इत्यर्थः ।

कथं तर्हि तस्मिन्नक्षरशब्दप्रवृत्तिस्तत्राऽऽह —

स एवेति ।

निरुपाधित्वं शुद्धत्वे हेतुः । केवलत्वमद्वितीयत्वम् ।

तथाऽपि कथं तत्र हिरण्यगर्भादिशब्दप्रत्ययावित्याशङ्क्याऽऽह —

तथेति ।

यथैकस्मिन्नेव परस्मिन्नात्मनि कल्पितोपाधिप्रयुक्तं नानात्वं तथा तदेजति तन्नैजतीत्यादि वाक्यमाश्रित्य प्रागेवोक्तमित्याह —

तथेति ।

कल्पनया परस्य नानात्वं वस्तुतस्त्वैकरस्यमित्यत्र श्रुतीरुदाहरति —

तथेत्यादिना ।

अवस्थाशक्तिविकारावयवपक्षेष्वपि यथोक्तश्रुतीनामुपपत्तिमाशङ्क्याऽऽह —

कल्पनान्तरेष्विति ।

औपाधिकोऽन्तर्याम्यादिभेदो न स्वाभाविक इत्युपसंहरति —

तस्मादिति ।

स्वतो वस्तुनि नास्ति भेदः किन्त्वैकरस्यमेवेत्यत्र हेतुमाह —

एकमिति ॥१२॥