बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं विदग्धः शाकल्यः पप्रच्छ । पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन् ओतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् ; तस्य च ब्रह्मणो व्याकृतविषये सूत्रभेदेषु नियन्तृत्वमुक्तम् — व्याकृतविषये व्यक्ततरं लिङ्गमिति । तस्यैव ब्रह्मणः साक्षादपरोक्षत्वे नियन्तव्यदेवताभेदसङ्कोचविकासद्वारेणाधिगन्तव्ये इति तदर्थं शाकल्यब्राह्मणमारभ्यते —

ब्राह्मणान्तरमुत्थापयति —

अथेति ।

गार्गिप्रश्ने निर्णीते तया ब्रह्मवदनं प्रत्येतत्तुल्यो नास्तीति सर्वान्प्रति कथनानन्तर्यमथशब्दार्थः ।

संगतिं वक्तुं वृत्तं कीर्तयति —

पृथिव्यादीनामिति ।

यत्साक्षादित्यादि प्रस्तुत्य सर्वान्तरत्वनिरूपणद्वारा साक्षित्वादिकमार्थिकं ब्राह्मणत्रये निर्धारितमित्यर्थः ।

अन्तर्यामिब्राह्मणे मुखतो निर्दिष्टमर्थमनुद्रवति —

तस्य चेति ।

नामरूपाभ्यां व्याकृतो विषयो द्वैतप्रपञ्चस्तत्र सूत्रस्य भेदा ये पृथिव्यादयस्तेषु नियम्येषु नियन्तृत्वं तस्योक्तमिति योजना ।

किमिति व्याकृतविषये नियन्तृत्वमुक्तमिति तत्राऽऽह —

व्याकृतेति ।

तत्र हि परतन्त्रस्य पृथिव्यादेर्ग्रहणं नियम्यत्वे स्पष्टतरं लिङ्गमिति तत्रैव नियन्तृत्वमुक्तमित्यर्थः ।

वृत्तमनूद्योत्तरस्य ब्राह्मणस्य तात्पर्यमाह —

तस्यैवेति ।

नियन्तव्यानां देवताभेदानां प्राणान्तः संकोचो विकासश्चाऽऽनन्त्यपर्यन्तस्तद्द्वारा प्रकृतस्यैव ब्रह्मणः साक्षात्परोक्षत्वे स एष नेति नेत्यात्मेत्यादिनाऽधिगन्तव्ये इति कृत्वा प्रथमं देवतासंकोचविकासोक्तिरनन्तरं वस्तुनिर्देश इत्येतदर्थमेतद्ब्राह्मणमित्यर्थः ।