बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥
अथ हैनं विदग्ध इति नामतः, शकलस्यापत्यं शाकल्यः, पप्रच्छ — कतिसङ्ख्याका देवाः हे याज्ञवल्क्येति । स याज्ञवल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे सङ्ख्याम् , यां सङ्ख्यां पृष्टवान् शाकल्यः ; यावन्तः यावत्सङ्ख्याका देवाः वैश्वदेवस्य शस्त्रस्य निविदि — निविन्नाम देवतासङ्ख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते, तानि निवित्संज्ञकानि ; तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इति । का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते — त्रयश्च त्री च शतात्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि ; पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राणि — एतावन्तो देवा इति । शाकल्योऽपि ओमिति होवाच । एवमेषां मध्यमा सङ्ख्या सम्यक्तया ज्ञाता ; पुनस्तेषामेव देवानां सङ्कोचविषयां सङ्ख्यां पृच्छति — कत्येव देवा याज्ञवल्क्येति ; त्रयस्त्रिंशत् , षट् , त्रयः, द्वौ, अध्यर्धः, एकः — इति । देवतासङ्कोचविकासविषयां सङ्ख्यां पृष्ट्वा पुनः सङ्ख्येयस्वरूपं पृच्छति — कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥

ब्राह्मणारम्भमेवमुक्त्वा तदक्षराणि व्याकरोति —

अथेत्यादिना ।

निविदिश्रूयन्ते तावन्तो देवा इत्युत्तरत्र संबन्धः ।

केयं निविदिति पृच्छति —

निविन्नामेति ।

उत्तरमाह —

देवतेति ।

पदार्थमुक्त्वा वाक्यार्थं कथयति —

तस्यामिति ।

यद्यपि भाष्ये निविद्व्याख्याता तथापि प्रश्नद्वारा श्रुत्या तां व्याख्याति —

का पुनरित्यादिना ।

अनुज्ञावाक्यं व्याकरोति —

एवमिति ।

मध्यमा संख्या षडधिकत्रिशताधिकत्रिसहस्रलक्षणा ।

कत्येवेत्यादिप्रश्नानां पूर्वप्रश्नेन पौनरुक्त्यमाशङ्क्य परिहरति —

पुनरित्यादिना ।

कतमे ते त्रयश्चेत्यादिप्रश्नस्य विषयभेदं दर्शयति —

देवतेति ॥१॥