बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥
स होवाच इतरः — महिमानः विभूतयः, एषां त्रयस्त्रिंशतः देवानाम् , एते त्रयश्च त्री च शतेत्यादयः ; परमार्थतस्तु त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंशदित्युच्यते — अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः — ते एकत्रिंशत् — इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रिंशतः पूरणौ ॥

कति तर्हि देवा निविदि भवन्ति तत्राऽऽह —

परमार्थतस्त्विति ।

त्रयस्त्रिंशतो देवानां स्वरूपं प्रश्नद्वारा निर्धारयति —

कतमे त इति ॥२॥