उत्तरप्रश्नप्रपञ्चप्रतीकं गृहीत्वा तस्य तात्पर्यमाह —
कतम इति ।
तेषां वस्वादीनां प्रत्येकं वस्वादित्रये प्रतिगणमिन्द्रे प्रजापतौ चैकैकस्येत्यर्थः ।
तेषां वसुत्वमेतेषु हीत्यादिवाक्यावष्टम्भेन स्पष्टयति —
प्राणिनामिति ।
तेषां कर्मणस्तत्फलस्य चाऽऽश्रयत्वेन तेषामेव निवासत्वेन च शरीरेन्द्रियसमुदायाकारेण विपरिणमन्तोऽग्न्यादयो जगदेतद्वासयन्ति स्वयं च तत्र वसन्ति तस्माद्युक्तं तेषां वसुत्वमित्यर्थः ।
वसुत्वं निगमयति —
ते यस्मादिति ॥३॥