बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥
कतमे रुद्रा इति । दश इमे पुरुषे, कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मनः एकादशः — एकादशानां पूरणः ; ते एते प्राणाः यदा अस्माच्छरीरात् मर्त्यात् प्राणिनां कर्मफलोपभोगक्षये उत्क्रामन्ति — अथ तदा रोदयन्ति तत्सम्बन्धिनः । तत् तत्र यस्माद्रोदयन्ति ते सम्बन्धिनः, तस्मात् रुद्रा इति ॥

प्राणशब्दार्थमाह —

कर्मेति ।

ते यदाऽस्मादित्यादि वाक्यमनुसृत्य तेषां रुद्रत्वमुपपादयति —

त एते प्राणा इति ।

मरणकालः सप्तम्यर्थः ॥४॥