मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायः
नवमं ब्राह्मणम्
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (बृहदारण्यक)
कतम आदित्या इति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य कालस्य अवयवाः प्रसिद्धाः, एते आदित्याः ; कथम् ? एते हि यस्मात् पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददानाः गृह्णन्त उपाददतः यन्ति गच्छन्ति — ते यत् यस्मात् एवम् इदं सर्वमाददाना यन्ति, तस्मादादित्या इति ॥
कथमिति
;
एते हीति ॥५॥
;
तेषामादित्यत्वमप्रसिद्धमिति शङ्कते —
कथमिति ।
एते हीत्यादिवाक्येनोत्तरमाह —
एते हीति ॥५॥