प्रसिद्धं वज्रं व्यावर्तयति —
वीर्यमिति ।
तदेव संघातनिष्ठत्वेन स्फुटयति —
बलमिति ।
किं तद्बलमिति चेत्तत्राऽऽह —
यत्प्राणिन इति ।
प्रमापणं हिंसनम् ।
कथं तस्येन्द्रत्वमुपचारादित्याह —
इन्द्रस्य हीति ।
पशूनां यज्ञत्वमप्रसिद्धमित्याशङ्क्याऽऽह —
यज्ञस्य हीति ।
कारणे कार्योपचारं साधयति —
यज्ञस्येति ।
अमूर्तत्वात्साधनव्यतिरिक्तरूपाभावाद्यज्ञस्य पश्वाश्रयत्वाच्च पशवो यज्ञ इत्युच्यत इत्यर्थः ॥६॥