एते हीति प्रतीकमादाय व्याचष्टे —
यस्मादिति ।
त्रयस्त्रिंशदाद्युक्तं तत्सर्वमेत एव यस्मात्तस्मादेते षड्भवन्तीति योजना ।
अक्षरार्थमुक्त्वा वाक्यार्थमाह —
सर्वो हीति ॥७॥
प्रतिज्ञासमाप्तावितिशब्दः ।