बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति ॥ ८ ॥
कतमे ते त्रयो देवा इति ; इम एव त्रयो लोका इति — पृथिवीमग्निं च एकीकृत्य एको देवः, अन्तरिक्षं वायुं च एकीकृत्य द्वितीयः, दिवमादित्यं च एकीकृत्य तृतीयः — ते एव त्रयो देवा इति । एषु, हि यस्मात् , त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति, तेन एत एव देवास्त्रयः — इत्येष नैरुक्तानां केषाञ्चित्पक्षः । कतमौ तौ द्वौ देवाविति — अन्नं चैव प्राणश्च एतौ द्वौ देवौ ; अनयोः सर्वेषामुक्तानामन्तर्भावः । कतमोऽध्यर्ध इति — योऽयं पवते वायुः ॥

तत्र हेतुः —

एषु हीति ।

देवलक्षणकृतां केषाञ्चिदेष पक्षो दर्शितोऽन्येषां तु त्रयो लोका इत्यस्य यथाश्रुतोऽर्थ इत्याह —

इत्येष इति ॥८॥