बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥
तत् तत्र आहुः चोदयन्ति — यदयं वायुः एक इवैव एक एव पवते ; अथ कथमध्यर्ध इति । यत् अस्मिन् इदं सर्वमध्यार्ध्नोत् — अस्मिन्वायौ सति इदं सर्वमध्यार्ध्नोत् — अधि ऋद्धिं प्राप्नोति — तेनाध्यर्ध इति । कतम एको देव इति, प्राण इति । स प्राणो ब्रह्म — सर्वदेवात्मकत्वान्महद्ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षते — त्यदिति तद्ब्रह्माचक्षते परोक्षाभिधायकेन शब्देन । देवानामेतत् एकत्वं नानात्वं च — अनन्तानां देवानां निवित्सङ्ख्याविशिष्टेष्वन्तर्भावः ; तेषामपि त्रयस्त्रिंशदादिषूत्तरोत्तरेषु यावदेकस्मिन्प्राणे ; प्राणस्यैव चैकस्य सर्वः अनन्तसङ्ख्यातो विस्तरः । एवमेकश्च अनन्तश्च अवान्तरसङ्ख्याविशिष्टश्च प्राण एव । तत्र च देवस्यैकस्य नामरूपकर्मगुणशक्तिभेदः अधिकारभेदात् ॥

एकस्याध्यर्धत्वमाक्षिपति —

तत्तत्रेति ।

इवशब्दस्तु कथमित्यत्र संबध्यते ।

परिहरति —

यदस्मिन्निति ।

प्राणस्य ब्रह्मत्वं साधयति —

सर्वेति ।

तेन महत्त्वेनेति यावत् ।

तस्य परोक्षत्वप्रतिपत्तौ प्रयत्नगौरवार्थं कथयति —

त्यदितीति ।

उक्तमर्थं प्रतिपत्तिसौकर्यार्थं संगृह्णाति —

देवानामिति ।

एकत्वं प्राणे पर्यवसानम् । नानात्वमानन्त्यम् ।

षडधिकत्रिशताधिकत्रिसहस्रसंख्याकानामेव देवानामत्रोक्तत्वात्कथं तदानन्त्यमित्याशङ्क्यशतसहस्रशब्दाभ्यामनन्तताऽप्युक्तैवेत्याशयेनाऽऽह —

अनन्तानामिति ।

एकस्मिन्प्राणे पर्यवसानं यावद्भवति तावत्पर्यन्तमुत्तरोत्तरेषु त्रयस्त्रिंशदादिषुतेषामप्यन्तर्भाव इत्याह —

तेषामपीति ।

प्राणस्य कस्मिन्नन्तर्भावस्तत्राऽऽह —

प्राणस्यैवेति ।

संगृहीतमर्थमुपसंहरति —

एवमिति ।

एकस्यानेकधाभावे किं निमित्तमित्याशङ्क्याऽऽह —

तत्रेति ।

उक्तरीत्या प्राणस्वरूपे स्थिते सतीति यावत् । देवस्यैकस्य प्रकृतस्य प्राणस्यैवेत्यर्थः । प्राणिनां ज्ञाने कर्मणि चाधिकारस्य स्वामित्वस्य भेदोऽधिकारभेदस्तन्निमित्तत्वेन देवस्यानेकसंस्थानपरिणामसिद्धिः । प्राणिनो हि ज्ञानं कर्म चानुष्ठाय सूत्रांशमग्न्यादिरूपमापद्यन्ते तद्युक्तो यथोक्तो भेद इत्यर्थः ॥९॥