बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच ॥ १० ॥
पृथिव्येव यस्य देवस्य आयतनम् आश्रयः ; अग्निर्लोको यस्य — लोकयत्यनेनेति लोकः, पश्यतीति — अग्निना पश्यतीत्यर्थः ; मनोज्योतिः — मनसा ज्योतिषा सङ्कल्पविकल्पादिकार्यं करोति यः, सोऽयं मनोज्योतिः ; पृथिवीशरीरः अग्निदर्शनः मनसा सङ्कल्पयिता पृथिव्यभिमानी कार्यकरणसङ्घातवान्देव इत्यर्थः । य एवं विशिष्टं वै तं पुरुषं विद्यात् विजानीयात् , सर्वस्य आत्मनः आध्यात्मिकस्य कार्यकरणसङ्घातस्य आत्मनः परमयनम् पर आश्रयः तं परायणम् — मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परम् अयनम् , करणात्मनश्च — स वै वेदिता स्यात् ; य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्यभिप्रायः । याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यभिप्रायः । यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषम् — सर्वस्य आत्मनः परायणं यमात्थ यं कथयसि — तमहं वेद । तत्र शाकल्यस्य वचनं द्रष्टव्यम् — यदि त्वं वेत्थ तं पुरुषम् , ब्रूहि किंविशेषणोऽसौ । शृणु, यद्विशेषणः सः — य एवायं शारीरः पार्थिवांशे शरीरे भवः शारीरः मातृजकोशत्रयरूप इत्यर्थः ; स एष देवः, यस्त्वया पृष्टः, हे शाकल्य ; किन्तु अस्ति तत्र वक्तव्यं विशेषणान्तरम् ; तत् वदैव पृच्छैवेत्यर्थः, हे शाकल्य । स एवं प्रक्षोभितोऽमर्षवशग आह, तोत्रार्दित इव गजः — तस्य देवस्य शारीरस्य का देवता — यस्मान्निष्पद्यते, यः ‘सा तस्य देवता’ इत्यस्मिन्प्रकरणे विवक्षितः ; अमृतमिति होवाच — अमृतमिति यो भुक्तस्यान्नस्य रसः मातृजस्य लोहितस्य निष्पत्तिहेतुः ; तस्माद्धि अन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम् ; ततश्च लोहितमयं शरीरं बीजाश्रयम् । समानमन्यत् ॥

संकोचविकासाभ्यां प्राणस्वरूपोक्त्यनन्तरमवसरप्राप्तिरिदानीमित्युच्यते । उपदिश्यते ध्यानार्थमिति शेषः । अवयवशो वाक्यं योजयति —

पृथिवीति ।

संपिण्डितं वाक्यत्रयार्थं कथयति —

पृथिवीत्यादिना ।

वैशब्दोऽवधारणार्थः । तं परायणं य एव विजानीयात्स एव वेदिता स्यादिति संबन्धः ।

अथ केन रूपेण पृथिवीदेवस्य कार्यकरणसंघातं प्रत्याश्रयत्वं तदाह —

मातृजेनेति ।

पृथिव्या मातृशब्दवाच्यत्वाद्य एव देवोऽहं पृथिव्यस्मीति मन्यसे स एव शरीरारम्भकमातृजकोशत्रयाभिमानितया वर्तते । तथा च तस्य तेन रूपेण पितृजत्रितयं कार्यं लिङ्गं च करणं प्रत्याश्रयत्वं संभवतीत्यर्थः ।

पृथिवीदेवस्य परायणत्वमुपपाद्यानन्तरवाक्यमुत्थाप्य व्याचष्टे —

स वै वेदितेति ।

तथाऽपि मम किमायातमित्याशङ्क्याऽऽह —

याज्ञवल्क्येति ।

स पुरुषो येन विशेषणेन विशिष्टस्तद्विशेषणमुच्यमानं शृण्वित्युक्त्वा तदेवाऽऽह —

य एवेति ।

शरीरं हि पञ्चभूतात्मकं तत्र पार्थिवांशे जनकत्वेन स्थितः शारीर इति यावत् ।

तस्य जीवत्वं वारयति —

मातृजेति ।

पृथिवीदेवस्य निर्णीतत्वशङ्कां वारयति —

किन्त्विति ।

याज्ञवल्क्यो वक्ता सन्प्रष्टारं शाकल्यं प्रति कथं वदैवेति कथयति तत्राऽऽह —

पृच्छेति ।

क्षोभितस्यामर्षवशगत्वे दृष्टान्तः —

तोत्रेति ।

प्राकरणिकं देवताशब्दार्थमाह —

यस्मादिति ।

पुरुषो निष्पत्तिकर्ता षष्ठ्योच्यते ।

लोहितनिष्पत्तिहेतुत्वमन्नरसस्यानुभवेन साधयति —

तस्माद्धीति ।

तस्य कार्यमाह —

ततश्चेति ।

लोहितादद्वितीयपदार्थनिष्ठात्तत्कार्यं त्वङ्मांसरुधिररूपं बीजस्यास्थिमज्जाशुक्रात्मकस्याऽऽश्रयभूतं भवतीत्यर्थः ।

पर्यायसप्तकमाद्यपर्यायेण तुल्यार्थत्वान्न पृथग्व्याख्यानापेक्षमित्याह —

समानमिति ॥१०॥