बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच ॥ ११ ॥
काम एव यस्यायतनम् । स्त्रीव्यतिकराभिलाषः कामः कामशरीर इत्यर्थः । हृदयं लोकः, हृदयेन बुद्ध्या पश्यति । य एवायं काममयः पुरुषः अध्यात्ममपि काममय एव, तस्य का देवतेति — स्त्रिय इति होवाच ; स्त्रीतो हि कामस्य दीप्तिर्जायते ॥

उत्तरपर्यायेषु येषां पदानामर्थभेदस्तेषां तत्कथनार्थं प्रतीकं गृह्णाति —

काम इति ।

वाक्यार्थमाह —

कामशरीर इत्यर्थ इति ।

स च हृदयदर्शनो मनसा संकल्पयितेति पूर्ववत् ।

तस्य विशेषणं दर्शयति —

य एवेति ।

आध्यात्मिकस्य काममयस्य पुरुषस्य कारणं पृच्छति —

तस्येति ।

तस्यास्तत्कारणत्वमनुभवेन व्यनक्ति —

स्त्रीतो हीति ॥११॥