बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ॥ १२ ॥
रूपाण्येव यस्यायतनम् । रूपाणि शुक्लकृष्णादीनि । य एवासावादित्ये पुरुषः — सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः, तस्य का देवतेति — सत्यमिति होवाच ; सत्यमिति चक्षुरुच्यते ; चक्षुषो हि अध्यात्मत आदित्यस्याधिदैवतस्य निष्पत्तिः ॥

रूपशरीरस्य चक्षुर्दर्शनस्य मनसा संकल्पयितुर्देवस्य कथमादित्ये पुरुषो विशेषणमित्याशङ्क्याऽऽह —

सर्वेषां हीति ।

रूपमात्राभिमानिनो देवस्याऽऽदित्ये पुरुषो विशेषावच्छेदः । स च सर्वरूपप्रकाशकत्वात्सर्वै रूपैः स्वप्रकाशनायाऽऽरब्धः । तस्माद्युक्तं यथोक्तं विशेषणमित्यर्थः ।

कथं चक्षुषः सकाशादादित्यस्योत्पत्तिरित्याशङ्क्य ‘चक्षोः सूर्यो अजायत’ इति श्रुतिमाश्रित्याऽऽह —

चक्षुषो हीति ॥१२॥

तत्रापीति श्रौत्रोक्तिः । प्रतिश्रवणं संवादः प्रतिविषयं श्रवणं वा सर्वाणि श्रवणानि वा तद्दशायामिति यावत् ।