संकोचविकासाभ्यां प्राणस्वरूपोक्त्यनन्तरमवसरप्राप्तिरिदानीमित्युच्यते । उपदिश्यते ध्यानार्थमिति शेषः । अवयवशो वाक्यं योजयति —
पृथिवीति ।
संपिण्डितं वाक्यत्रयार्थं कथयति —
पृथिवीत्यादिना ।
वैशब्दोऽवधारणार्थः । तं परायणं य एव विजानीयात्स एव वेदिता स्यादिति संबन्धः ।
अथ केन रूपेण पृथिवीदेवस्य कार्यकरणसंघातं प्रत्याश्रयत्वं तदाह —
मातृजेनेति ।
पृथिव्या मातृशब्दवाच्यत्वाद्य एव देवोऽहं पृथिव्यस्मीति मन्यसे स एव शरीरारम्भकमातृजकोशत्रयाभिमानितया वर्तते । तथा च तस्य तेन रूपेण पितृजत्रितयं कार्यं लिङ्गं च करणं प्रत्याश्रयत्वं संभवतीत्यर्थः ।
पृथिवीदेवस्य परायणत्वमुपपाद्यानन्तरवाक्यमुत्थाप्य व्याचष्टे —
स वै वेदितेति ।
तथाऽपि मम किमायातमित्याशङ्क्याऽऽह —
याज्ञवल्क्येति ।
स पुरुषो येन विशेषणेन विशिष्टस्तद्विशेषणमुच्यमानं शृण्वित्युक्त्वा तदेवाऽऽह —
य एवेति ।
शरीरं हि पञ्चभूतात्मकं तत्र पार्थिवांशे जनकत्वेन स्थितः शारीर इति यावत् ।
तस्य जीवत्वं वारयति —
मातृजेति ।
पृथिवीदेवस्य निर्णीतत्वशङ्कां वारयति —
किन्त्विति ।
याज्ञवल्क्यो वक्ता सन्प्रष्टारं शाकल्यं प्रति कथं वदैवेति कथयति तत्राऽऽह —
पृच्छेति ।
क्षोभितस्यामर्षवशगत्वे दृष्टान्तः —
तोत्रेति ।
प्राकरणिकं देवताशब्दार्थमाह —
यस्मादिति ।
पुरुषो निष्पत्तिकर्ता षष्ठ्योच्यते ।
लोहितनिष्पत्तिहेतुत्वमन्नरसस्यानुभवेन साधयति —
तस्माद्धीति ।
तस्य कार्यमाह —
ततश्चेति ।
लोहितादद्वितीयपदार्थनिष्ठात्तत्कार्यं त्वङ्मांसरुधिररूपं बीजस्यास्थिमज्जाशुक्रात्मकस्याऽऽश्रयभूतं भवतीत्यर्थः ।
पर्यायसप्तकमाद्यपर्यायेण तुल्यार्थत्वान्न पृथग्व्याख्यानापेक्षमित्याह —
समानमिति ॥१०॥