उत्तरपर्यायेषु येषां पदानामर्थभेदस्तेषां तत्कथनार्थं प्रतीकं गृह्णाति —
काम इति ।
वाक्यार्थमाह —
कामशरीर इत्यर्थ इति ।
स च हृदयदर्शनो मनसा संकल्पयितेति पूर्ववत् ।
तस्य विशेषणं दर्शयति —
य एवेति ।
आध्यात्मिकस्य काममयस्य पुरुषस्य कारणं पृच्छति —
तस्येति ।
तस्यास्तत्कारणत्वमनुभवेन व्यनक्ति —
स्त्रीतो हीति ॥११॥