बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आप एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ॥ १६ ॥
आप एव यस्य आयतनम् । साधारणाः सर्वा आप आयतनम् ; वापीकूपतडागाद्याश्रयासु अप्सु विशेषावस्थानम् ; तस्य का देवतेति, वरुण इति — वरुणात् सङ्घातकर्त्र्यः अध्यात्मम् आप एव वाप्याद्यपां निष्पत्तिकारणम् ॥

आप एव यस्याऽऽयतनं य एवायमप्सु पुरुष इत्युभयत्र सामान्यविशेषभावो न प्रतिभातीति शङ्कमानं प्रत्याह —

साधरणा इति ।

कथं पुनर्वापीकूपादिविशेषायतनस्य वरुणो देवता न हि देवतात्मनो वरुणस्य तदधिष्ठातुस्तत्कारणत्वं तत्राऽऽह —

वरुणादिति ।

आपो वापीकूपाद्याः पीताः सत्योऽध्यात्मं शरीरे मूत्रादिसंघातं कुर्वन्ति । ताश्च वरुणाद्भवन्ति । वरुणशब्देनाऽऽप एव रशिमद्वारा भूमिं पतन्त्योऽभिधीयन्ते । तथा च ता एव वरुणात्मिका वाप्याद्यपां पीयमानानामुत्पत्तिकारणमिति युक्तं वरुणस्य वापीतडागाद्यायतनं पुरुषं प्रति कारणत्वमित्यर्थः ॥१६॥