बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
रेत एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच ॥ १७ ॥
रेत एव यस्यायतनम् ; य एवायं पुत्रमयः विशेषायतनं रेतआयतनस्य — पुत्रमय इति च अस्थिमज्जाशुक्राणि पितुर्जातानि ; तस्य का देवतेति, प्रजापतिरिति होवाच — प्रजापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः ॥

वाक्यद्वयं गृहीत्वा तात्पर्यमाह —

विशेषेति ।

पुत्रमयशब्दार्थं व्याचष्टे —

पुत्रमय इति ॥१७॥