शाकल्येति होवाचेत्यादिग्रन्थस्य तात्पर्यं वक्तुं वृत्तं कीर्तयति —
अष्टधेति ।
लोकः सामान्याकारः पुरुषो विशेषावच्छेदो देवस्तत्कारणमनेन प्रकारेण त्रिधा त्रिधाऽऽत्मानं प्रविभज्य स्थितो य एकैको देव उक्तः स प्राण एव सूत्रात्मा तद्भेदत्वात्पूर्वोक्तस्य सर्वस्य स चोपासनार्थमष्टधोपदिष्टोऽधस्तादित्यर्थः ।
उत्तरस्य तात्पर्यं दर्शयति —
अधुनेति ।
प्रविभक्तस्य जगतः सर्वस्येति शेषः । आत्मशब्दो ह्रदयविषयः ।
याज्ञवल्क्यवाक्यस्य शाकल्ये प्रष्टर्यबुद्धिपूर्वकारित्वापादकत्वं दर्शयति —
ग्रहेणेति ॥१८॥