बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥
याज्ञवल्क्येति होवाच शाकल्यः — यदिदं कुरुपञ्चालानां ब्राह्मणान् अत्यवादीः अत्युक्तवानसि — स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति — किं ब्रह्म विद्वान्सन् एवमधिक्षिपसि ब्राह्मणान् । याज्ञवल्क्य आह — ब्रह्मविज्ञानं तावदिदं मम ; किं तत् ? दिशो वेद दिग्विषयं विज्ञानं जाने ; तच्च न केवलं दिश एव, सदेवाः देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठाः प्रतिष्ठाभिश्च सह । इतर आह — यत् यदि दिशो वेत्थ सदेवाः सप्रतिष्टा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥

सर्वेषामेव ब्राह्मणानां प्रायेण हन्तव्यत्वेन संमतो भवानिति मुनेरभिसंहितं शाकल्यस्तु कालचोदितत्वात्तदनुरोधिनीमन्यथाप्रतिपत्तिमेवाऽऽदाय चोदयतीत्याह —

यदिदमिति ।

दिग्विषयं विज्ञानं जाने तन्ममास्तीत्यर्थः ।

तच्च विज्ञानं केवलं दिङ्मात्रस्य न भवति किन्तु देवैः प्रतिष्ठाभिश्च सहिता दिशो वेदेत्याह —

तच्चेति ।

अवतारितस्य वाक्यस्यार्थं संक्षिपति —

सफलमिति ॥१९॥