प्राच्यां दिशि का देवतेति वक्तव्ये कथमन्यथा पृच्छ्यते तत्राऽऽह —
असौ हीति
आत्मानमात्मीयमिति यावत् । यथोक्तं ह्रदयमात्मत्वेनोपगम्येति संबन्धः ।
तथाऽपि प्रथमं प्राचीं दिशमधिकृत्य प्रश्ने को हेतुरिति चेत्तत्राऽऽह —
पूर्वाभिमुख इति ।
यद्यपि दिगात्माऽहमस्मीति स्थितस्तथाऽपि कथं सर्वं जगदात्मत्वेनोपगम्य तिष्ठतीत्यवगम्यते तत्राऽऽह —
सप्रतिष्ठेति ।
सप्रतिष्ठा दिशो वेदेति वचनात्सर्वमपि हृदयद्वारा जगदात्मत्वेनोपगम्य स्थितो मुनिरिति प्रतिभातीत्यर्थः ।
प्रतिज्ञानुसारित्वाच्चायं प्रश्नो युक्तिमानित्याह —
यथेति ।
अहमस्मि दिगात्मेति प्रतिज्ञानुसारिण्यपि प्रश्ने देहपातोत्तरभावी देवताभावः पृच्छ्यते सति देहे ध्यातुस्तद्भावायोगादित्याशङ्क्याऽऽह —
सर्वत्र हीति ।
इति न भाविदेवताभावः प्रश्नगोचर इति शेषः ।
उक्तेऽर्थे वाक्यशेषमनुकूलयति —
तथा चेति ।
प्रश्नार्थमुपसंहरति —
अस्यामिति ।
आदित्यस्य चक्षुषि प्रतिष्ठितत्वं प्रकटयितुं कार्यकारणभावं तयोरादर्शयति —
अध्यात्मतश्चक्षुष इति ।
‘चक्षोः सूर्यो अजायत’ इत्यादयो मन्त्रवादास्तदनुसारिणश्च ब्राह्मणवादाः ।
भवतु कार्यकारणभावस्तथाऽपि कथं चक्षुष्यादित्यस्य प्रतिष्ठितत्वं तत्राऽऽह —
कार्यं हीति ।
कथं चक्षुषो रूपेषु प्रतिष्ठितत्वं तत्राऽऽह —
रूपग्रहणायेति ।
तथाऽपि कथं यथोक्तमाधाराधेयत्वमत आह —
यैर्हीति ।
चक्षुषो रूपाधारत्वे फलितमाह —
तस्मादिति ।
उपसंहृतमर्थं संगृह्णाति —
चक्षुषेति ।
हृदयारब्धत्वं रूपाणां स्फुटयति —
रूपाकारेणेति ।
हृदये रूपाणां प्रतिष्ठितत्वे हेत्वन्तरमाह —
यस्मादिति ।
हृदयशब्दस्य मांसखण्डविषयत्वं व्यावर्तयति —
हृदयमिति ।
कथं पुनर्बहिर्मुखानि रूपाण्यन्तर्हृदये स्थातुं पारयन्ति तत्राऽऽह —
हृदयेन हीति ।
तथाऽपि कथं तेषां हृदयप्रतिष्ठितत्वं तत्राऽऽह —
वासनात्मनामिति ॥२०॥