पूर्ववदित्युक्तमेव व्यनक्ति —
दक्षिणायामिति ।
यमस्य यज्ञकार्यत्वमप्रसिद्धमिति शङ्कित्वा व्युत्थापयति —
कथमित्यादिना ।
तस्य यज्ञकार्यत्वे फलितमाह —
तेनेति ।
यज्ञस्य दक्षिणायां प्रतिष्ठितत्वं साधयति —
दक्षिणयेति ।
कार्यं च कारणे प्रतिष्ठितमिति शेषः ।
दक्षिणायाः श्रद्धायां प्रतिष्ठितत्वं प्रकटयति —
यस्मादिति ।
हृदये सा प्रतिष्ठितेत्यत्र हेतुमाह —
हृदयस्येति ।
हृदयव्याप्यत्वाच्च श्रद्धायास्तत्प्रतिष्ठितत्वमित्याह —
हृदयेन हीति ।
हृदयस्य श्रद्धा वृत्तिरस्तु तथाऽपि प्रकृते किमायातं तदाह —
वृत्तिश्चेति ॥२१॥