बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमिति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २२ ॥
किं देवतोऽस्यां प्रतीच्यां दिश्यसीति । तस्यां वरुणोऽधिदेवता मम । स वरुणः कस्मिन्प्रतिष्ठित इति, अप्स्विति — अपां हि वरुणः कार्यम् , ‘श्रद्धा वा आपः’ (तै. सं. १ । ६ । ८ । १) ‘श्रद्धातो वरुणमसृजत’ ( ? ) इति श्रुतेः । कस्मिन्न्वापः प्रतिष्ठिता इति, रेतसीति — ‘रेतसो ह्यापः सृष्टाः’ ( ? ) इति श्रुतेः । कस्मिन्नु रेतः प्रतिष्ठितमिति, हृदय इति — यस्मात् हृदयस्य कार्यं रेतः ; कामो हृदयस्य वृत्तिः ; कामिनो हि हृदयात् रेतोऽधिस्कन्दति ; तस्मादपि प्रतिरूपम् अनुरूपं पुत्रं जातमाहुर्लौकिकाः — अस्य पितुर्हृदयादिव अयं पुत्रः सृप्तः विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः । तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥

रेतसो हृदयकार्यत्वं साधयति —

काम इति ।

तथाऽपि कथं रेतो हृदयस्य कार्यं तदाह —

कामिनो हीति ।

तत्रैव लोकप्रसिद्धिं प्रमाणयति —

तस्मादिति ।

अपिशब्दः संभावनार्थोऽवधारणार्थो वा ॥२२॥