बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
किन्देवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २३ ॥
किन्देवतोऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति — सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः । स सोमः कस्मिन्प्रतिष्ठित इति, दीक्षायामिति — दीक्षितो हि यजमानः सोमं क्रीणाति ; क्रीतेन सोमेन इष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम् । कस्मिन्नु दीक्षा प्रतिष्ठितेति, सत्य इति — कथम् ? यस्मात्सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः — सत्यं वदेति — कारणभ्रेषे कार्यभ्रेषो मा भूदिति । सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति ; हृदय इति होवाच ; हृदयेन हि सत्यं जानाति ; तस्मात् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥

दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —

दीक्षितो हीत्यादिना ।

दीक्षायाः सत्ये प्रतिष्ठितत्वमप्रसिद्धमिति शङ्कित्वा समादत्ते —

कथमित्यादिना ।

अपिशब्दोऽवधारणार्थः ।

सत्यं वदेति वदतामभिप्रायमाह —

कारणेति ।

भ्रेषो भ्रंशो नाशः । इति तेषामभिप्राय इति शेषः ।

प्रकृतोपसंहारः —

सत्ये हीति ॥२३॥