बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥
किन्देवतोऽस्यां ध्रुवायां दिश्यसीति । मेरोः समन्ततो वसतामव्यभिचारात् ऊर्ध्वा दिक् ध्रुवेत्युच्यते । अग्निदेवत इति — ऊर्ध्वायां हि प्रकाशभूयस्त्वम् , प्रकाशश्च अग्निः सोऽग्निः कस्मिन्प्रतिष्ठित इति, वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति, हृदय इति । तत्र याज्ञवल्क्यः सर्वासु दिक्षु विप्रसृतेन हृदयेन सर्वा दिश आत्मत्वेनाभिसम्पन्नः ; सदेवाः सप्रतिष्ठा दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य ; यत् रूपं तत् प्राच्यादिशा सह हृदयभूतं याज्ञवल्क्यस्य ; यत्केवलं कर्म पुत्रोत्पादनलक्षणं च ज्ञानसहितं च सह फलेन अधिष्ठात्रीभिश्च देवताभिः दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिकाः हृदयमेव आपन्नास्तस्य ; ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम् ; एतावद्धीदं सर्वम् ; यदुत रूपं वा कर्म वा नाम वेति तत्सर्वं हृदयमेव ; तत् सर्वात्मकं हृदयं पृच्छ्यते — कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥

कथं पुनरूर्ध्वा दिगवस्थिता ध्रुवेत्युच्यते तत्राऽऽह —

मेरोरिति ।

तत्राग्नेर्देवतात्वं प्रकटयति —

ऊर्ध्वायां हीति ।

‘दिशो वेद’(बृ.उ.३-९-१९) इत्यादिश्रुत्या जगतो विभागेन पञ्चधात्वं ध्यानार्थमुक्तमिदानीं विभागवादिन्याः श्रुतेरभिप्रायमाह —

तत्रेति ।

यथोक्ते विभागे सतीति यावत् ।

उक्तमर्थं संक्षिपति —

सदेवा इति ।

तत्रावान्तरविभागमाह —

यद्रूपमिति ।

आद्ये पर्याये हृदये रूपप्रपञ्चोपसंहारो दर्शितः । ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) इति श्रुतेरित्यर्थः ।

दक्षिणायामित्यादिपर्यायत्रयेण तत्रैव कर्मोपसंहार उक्त इत्याह —

यत्केवलमिति ।

यद्धि केवलं कर्म तत्फलादिभिः सह दक्षिणादिगात्मकं हृद्युपसंह्रियते यज्ञस्य दक्षिणादिद्वारा हृदये प्रतिष्ठितत्वोक्तेर्दक्षिणस्या दिशस्तत्फलत्वात्पुत्रजन्माख्यं च कर्म प्रतीच्यात्मकं तत्रैवोपसंहृतम् । ‘हृदये ह्येव रेतः प्रतिष्ठितम्’(बृ. उ. ३ । ९ । २२ ) इति श्रुतेः । पुत्रजन्मनश्च तत्कार्यत्वाज्ज्ञानसहितमपि कर्म फलप्रतिष्ठादेवताभिः सहोदीच्यात्मकं तत्रैवोपसंहृतं सोमदेवताया दीक्षादिद्वारा तत्प्रतिष्ठितत्वश्रुतेरेवं दिक्त्रये सर्वं कर्म हृदि संहृतमित्यर्थः ।

पञ्चमपर्यायस्य तात्पर्यमाह —

ध्रुवयेति ।

नामरूपकर्मसूपसंहृतेष्वपि किञ्चिदुपसंहर्तव्यान्तरमवशिष्टमस्तीत्याशङ्क्य निराकरोति —

एतावद्धीति ।

प्रश्नान्तरमुत्थापयति —

तत्सर्वात्मकमिति ॥२४॥