हृदयपदेन नामाद्याधारवदहल्लिकशब्देनापि हृदयाधिकरणं विवक्ष्यते वाक्यच्छायासाम्यादित्याशङ्क्याह —
नामान्तरेणेति ।
अहनि लीयत इति विगृह्य प्रेतवाचिनेति शेषः ।
देहे हृदयं प्रतिष्ठितमिति व्युत्पादयति —
यत्रेत्यादिना ।
तस्मिन् काले शरीरं मृतं स्यादिति शेषः ।
शरीरस्य हृदयाश्रयत्वं विशदयति —
यद्धीत्यादिना ।
देहादन्यत्र हृदयस्यावस्थाने यथोक्तं दोषमितिशब्देन परामृश्य फलितमाह —
इतीत्यादिना ।
देहस्तर्हि कुत्र प्रतिष्ठित इत्यत्र आह —
शरीरस्येति ॥२५॥