वृत्तमनूद्य प्रश्नान्तरमुपादत्ते —
हृदयेति ।
प्राणशब्दस्य सूत्रविषयत्वं व्यवच्छेत्तुं वृत्तिविशेषणम् ।
प्राणस्यापाने प्रतिष्ठितत्वं व्यतिरेकद्वारा स्फोरयति —
साऽपीति ।
प्राणापानयोरुभयोरपि व्यानाधीनत्वं साधयति —
साऽप्यपानेति ।
तिसृणां वृत्तीनामुक्तानामुदाने निबद्धत्वं दर्शयति —
सर्वा इति ।
विष्वङ्ङिति नानागतित्वोक्तिः ।
कस्मिन्नु हृदयमित्यादेः समानान्तस्य तात्पर्यमाह —
एतदिति ।
तेषां प्रवर्तकं दर्शयति —
विज्ञानमयेति ।
स एष इत्यादेस्तात्पर्यमाह —
सर्वमिति ।
यस्य कूटस्थदृष्टिमात्रस्यान्तर्यामित्वकल्पनाधिष्ठानस्याज्ञानवशात्प्रशासने द्यावापृथिव्यादि स्थितं स परमात्मैष प्रत्यगात्मैवेति पदयोरर्थं विवक्षित्वाऽऽह —
स एष इति ।
निषेधद्वयं मूर्तामूर्तब्राह्मणे व्याख्यातमित्याह —
स यो नेति ।
यो मधुकाण्डे चतुर्थे नेति नेतीति निषेधमुखेन निर्दिष्टः स एष कूर्चब्राह्मणे तन्मुखेनैव वक्ष्यत इति योजना ।
निषेधद्वारा निर्दिष्टमेव स्पष्टयति —
सोऽयमिति ।
कार्यधर्माः शब्दादयोऽशनायादयश्च ।
श्रुत्युक्तं हेतुमवतार्य व्याचष्टे —
कुत इत्यादिना ।
तद्विपरीतत्वं करणागोचरत्वं न चक्षुषेत्यादिश्रुतेः । तद्विपरीतत्वादमूर्तत्वादिति यावत् । पूर्वत्राप्युभयत्र तद्वैपरीत्यमेतदेव ।
अतः शब्दार्थं स्फुटयन्नुक्तमुपपादयति —
ग्रहणेति ।
कार्यधर्माः शब्दादयोऽशनायादयश्च प्रागुक्ताः ।
ननु शाकल्ययाज्ञवल्क्ययोः संवादात्मिकेयमाख्यायिका तत्र कथं शाकल्येनापृष्टमात्मानं याज्ञवल्क्यो व्याचष्टे तत्राऽऽह —
क्रममिति ।
विज्ञानादिवाक्ये वक्ष्यमाणत्वात्किमित्यत्र निर्देश इत्याशङ्क्याऽऽह —
त्वरयेति ।
एतान्यष्टावित्यादिवाक्यस्य पूर्वेणासंगतिमाशङ्क्याऽऽह —
ततः पुनरिति ।
निश्चयेन गमयित्वेत्येतदेव स्पष्टयति —
अष्टेति ।
प्रत्युह्योपसंहृत्येति यावत् ।
औपनिषदत्वं पुरुषस्य व्युत्पादयति —
उपनिषत्स्वेवेति ।
तं हेत्यादि याज्ञवल्क्यस्य वा मध्यस्थस्य वा वाक्यमिति शङ्कां वारयति —
समाप्तेति ।
ब्रह्मविद्विद्वेषे परलोकविरोधोऽपि स्यादित्याह —
किञ्चेति ।
मूर्धा ते विपतिष्यतीति मूर्ध्नि पतिते शापेन किमित्यग्निहोत्राग्निसंस्कारमपि शाकल्यो न प्राप्तवानित्याशङ्क्याऽऽह —
पूर्ववृत्तेति ।
तामेवाऽऽख्यायिकामनुक्रामति —
अष्टाध्याय्यामिति ।
अष्टाध्यायी बृहदारण्यकात्प्राचीना कर्मविषया । पुरे पुण्यक्षेत्रातिरिक्ते देशे । अतिथ्ये पुण्यतिथिशून्ये काले । अस्थीनि चनेत्यत्र चनशब्दोऽप्यर्थः । उपवादी परिभवकर्ता ।
तच्छब्दार्थमाह —
उत इति ।
किमितीयमाख्यायिकाऽत्र विद्याप्रकरणे सूचितेत्यशङ्क्याऽऽह —
सैषेति ।
ब्रह्मविदि विनीतेन भवितव्यमित्याचारः । महती हीयं ब्रह्मविद्या यत्तन्निष्ठावज्ञायामैहिकामुष्मिकविरोधः स्यादिति विद्यास्तुतिः ॥२६॥