बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तान्हैतैः श्लोकैः पप्रच्छ —
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १ ॥
तेष्वप्रगल्भभूतेषु ब्राह्मणेषु तान् ह एतैः वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान् । यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषोऽमृषा — अमृषा सत्यमेतत् ; तस्य लोमानि — तस्य पुरुषस्य लोमानि इतरस्य वनस्पतेः पर्णानि ; त्वगस्योत्पाटिका बहिः — त्वक् अस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥

स्वकीयज्ञानप्रकर्षप्रकटनार्थमेव प्रश्नान्तरमवतारयति —

तेष्विति ।

वृक्षो वनस्पतिरिति पर्यायत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह —

वृक्षस्येति ।

तच्च तस्य महत्त्वमाहेत्यपुनरुक्तिः । पुरुषस्य वृक्षसाधर्म्यमेतदित्युच्यते ।

साधर्म्यमेव स्पष्टयति —

तस्येत्यादिना ।

नीरसा त्वगुत्पाटिकेत्युच्यते ॥१॥ उत्पटो वृक्षनिर्यासः ॥२॥