बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥
अथ होवाच । अथ अनन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु ह उवाच, हे ब्राह्मणा भगवन्त इत्येवं सम्बोध्य — यो वः युष्माकं मध्ये कामयते इच्छति — याज्ञवल्क्यं पृच्छामीति, स मा माम् आगत्य पृच्छतु ; सर्वे वा मा पृच्छत — सर्वे वा यूयं मा मां पृच्छत ; यो वः कामयते — याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छामि ; सर्वान्वा वः युष्मान् अहं पृच्छामि । ते ह ब्राह्मणा न दधृषुः — ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम् ॥

यो व इति प्रतीकमादाय व्याचष्टे —

युष्माकमिति ।

व्याख्यातं भागमनूद्य व्याख्येयमादाय व्याकरोति —

यो व इत्यादिना ।

यथोक्तप्रश्नानन्तरं ब्राह्मणानामप्रतिभां दर्शयति —

ते हेति ॥२७॥