अथ हेत्याद्युत्तरग्रन्थमवतारयति —
यस्येत्यादिना ।
जगतो मूलं च वक्तव्यमित्याख्यायिकामेवाऽऽश्रित्याऽऽहेति संबन्धः ।
आख्यायिका किमर्थेत्यत आह —
आख्यायिकेति ।
इतिशब्दः संबन्धसमाप्त्यर्थः ।
ननु ब्राह्मणेषु तूष्णीम्भूतेषु प्रतिषेद्धुरभावाद्गोधनं हर्तव्यं किमिति तान्प्रति याज्ञवल्क्यो वदतीत्यत आह —
न्यायं मत्त्वेति ।
ब्रह्मस्वं हि ब्राह्मणानुमतिमनापाद्य नीयमानमनर्थाय स्यादिति न्यायः । संबोध्योवाचेति संबन्धः ।