बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि तं चेन्मे न विवक्ष्यति मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६ ॥
हृदयशरीरयोरेवमन्योन्यप्रतिष्ठा उक्ता कार्यकरणयोः ; अतस्त्वां पृच्छामि — कस्मिन्नु त्वं च शरीरम् आत्मा च तव हृदयं प्रतिष्ठितौ स्थ इति ; प्राण इति ; देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ । कस्मिन्नु प्राणः प्रतिष्ठित इति, अपान इति — सापि प्राणवृत्तिः प्रागेव प्रेयात् , अपानवृत्त्या चेन्न निगृह्येत । कस्मिन्न्वपानः प्रतिष्ठित इति, व्यान इति — साप्यपानवृत्तिः अध एव यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेत् व्यानवृत्त्या न निगृह्येत । कस्मिन्नु व्यानः प्रतिष्ठित इति, उदान इति — सर्वास्तिस्रोऽपि वृत्तय उदाने कीलस्थानीये चेन्न निबद्धाः, विष्वगेवेयुः । कस्मिन्नूदानः प्रतिष्ठित इति, समान इति — समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः । एतदुक्तं भवति — शरीरहृदयवायवोऽन्योन्यप्रतिष्ठाः । सङ्घातेन नियता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति । सर्वमेतत् येन नियतम् यस्मिन्प्रतिष्ठितम् आकाशान्तम् ओतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद्ब्रह्मणो निर्देशः कर्तव्य इत्ययमारम्भः । स एषः — स यो ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिष्टो मधुकाण्डे एष सः, सोऽयमात्मा अगृह्यः न गृह्यः ; कथम् ? यस्मात्सर्वकार्यधर्मातीतः, तस्मादगृह्यः ; कुतः ? यस्मान्न हि गृह्यते ; यद्धि करणगोचरं व्याकृतं वस्तु, तद्ग्रहणगोचरम् ; इदं तु तद्विपरीतमात्मतत्त्वम् । तथा अशीर्यः — यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते ; अयं तु तद्विपरीतः ; अतो न हि शीर्यते । तथा असङ्गः — मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यते ; अयं च तद्विपरीतः ; अतो न हि सज्यते । तथा असितः अबद्धः — यद्धि मूर्तं तत् बध्यते ; अयं तु तद्विपरीतत्वात् असितः ; अबद्धत्वान्न व्यथते ; अतो न रिष्यति — ग्रहणविशरणसङ्गबन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः । क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातोऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः ; ततः पुनः आख्यायिकामेवाश्रित्याह — एतानि यान्युक्तानि अष्टावायतनानि ‘पृथिव्येव यस्यायतनम्’ इत्येवमादीनि, अष्टौ लोकाः अग्निलोकादयः, अष्टौ देवाः ‘अमृतमिति होवाच’ (बृ. उ. ३ । ९ । १०) इत्येवमादयः, अष्टौ पुरुषाः ‘शरीरः पुरुषः’ इत्यादयः — स यः कश्चित् तान्पुरुषान् शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गमयित्वा अष्टचतुष्कभेदेन लोकस्थितिमुपपाद्य, पुनः प्राचीदिगादिद्वारेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये अत्यक्रामत् अतिक्रान्तवानुपाधिधर्मं हृदयाद्यात्मत्वम् ; स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषः अशनायादिवर्जित उपनिषत्स्वेव विज्ञेयः नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि । तं चेत् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः । तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान्किल । तस्य ह मूर्धा विपपात विपतितः । समाप्ता आख्यायिका । श्रुतेर्वचनम् , ‘तं ह न मेने’ इत्यादि । किं च अपि ह अस्य परिमोषिणः तस्कराः अस्थीन्यपि संस्कारार्थं शिष्यैर्नीयमानानि गृहान्प्रत्यपजह्रुः अपहृतवन्तः — किं निमित्तम् — अन्यत् धनं नीयमानं मन्यमानाः । पूर्ववृत्ता ह्याख्यायिकेह सूचिता । अष्टाध्याय्यां किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव संवादो निर्वृत्तः ; तत्र याज्ञवल्क्येन शापो दत्तः — ‘पुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनिचन गृहान्प्राप्स्यन्ति’ (शत. ब्रा. ११ । ६ । ३ । ११) इति ‘स ह तथैव ममार ; तस्य हाप्यन्यन्मन्यमानाः परिमोषिणोऽस्थीन्यपजह्रुः ; तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवतीति’ (शत. ब्रा. ११ । ६ । ३ । ११) । सैषा आख्यायिका आचारार्थं सूचिता विद्यास्तुतये च इह ॥

वृत्तमनूद्य प्रश्नान्तरमुपादत्ते —

हृदयेति ।

प्राणशब्दस्य सूत्रविषयत्वं व्यवच्छेत्तुं वृत्तिविशेषणम् ।

प्राणस्यापाने प्रतिष्ठितत्वं व्यतिरेकद्वारा स्फोरयति —

साऽपीति ।

प्राणापानयोरुभयोरपि व्यानाधीनत्वं साधयति —

साऽप्यपानेति ।

तिसृणां वृत्तीनामुक्तानामुदाने निबद्धत्वं दर्शयति —

सर्वा इति ।

विष्वङ्ङिति नानागतित्वोक्तिः ।

कस्मिन्नु हृदयमित्यादेः समानान्तस्य तात्पर्यमाह —

एतदिति ।

तेषां प्रवर्तकं दर्शयति —

विज्ञानमयेति ।

स एष इत्यादेस्तात्पर्यमाह —

सर्वमिति ।

यस्य कूटस्थदृष्टिमात्रस्यान्तर्यामित्वकल्पनाधिष्ठानस्याज्ञानवशात्प्रशासने द्यावापृथिव्यादि स्थितं स परमात्मैष प्रत्यगात्मैवेति पदयोरर्थं विवक्षित्वाऽऽह —

स एष इति ।

निषेधद्वयं मूर्तामूर्तब्राह्मणे व्याख्यातमित्याह —

स यो नेति ।

यो मधुकाण्डे चतुर्थे नेति नेतीति निषेधमुखेन निर्दिष्टः स एष कूर्चब्राह्मणे तन्मुखेनैव वक्ष्यत इति योजना ।

निषेधद्वारा निर्दिष्टमेव स्पष्टयति —

सोऽयमिति ।

कार्यधर्माः शब्दादयोऽशनायादयश्च ।

श्रुत्युक्तं हेतुमवतार्य व्याचष्टे —

कुत इत्यादिना ।

तद्विपरीतत्वं करणागोचरत्वं न चक्षुषेत्यादिश्रुतेः । तद्विपरीतत्वादमूर्तत्वादिति यावत् । पूर्वत्राप्युभयत्र तद्वैपरीत्यमेतदेव ।

अतः शब्दार्थं स्फुटयन्नुक्तमुपपादयति —

ग्रहणेति ।

कार्यधर्माः शब्दादयोऽशनायादयश्च प्रागुक्ताः ।

ननु शाकल्ययाज्ञवल्क्ययोः संवादात्मिकेयमाख्यायिका तत्र कथं शाकल्येनापृष्टमात्मानं याज्ञवल्क्यो व्याचष्टे तत्राऽऽह —

क्रममिति ।

विज्ञानादिवाक्ये वक्ष्यमाणत्वात्किमित्यत्र निर्देश इत्याशङ्क्याऽऽह —

त्वरयेति ।

एतान्यष्टावित्यादिवाक्यस्य पूर्वेणासंगतिमाशङ्क्याऽऽह —

ततः पुनरिति ।

निश्चयेन गमयित्वेत्येतदेव स्पष्टयति —

अष्टेति ।

प्रत्युह्योपसंहृत्येति यावत् ।

औपनिषदत्वं पुरुषस्य व्युत्पादयति —

उपनिषत्स्वेवेति ।

तं हेत्यादि याज्ञवल्क्यस्य वा मध्यस्थस्य वा वाक्यमिति शङ्कां वारयति —

समाप्तेति ।

ब्रह्मविद्विद्वेषे परलोकविरोधोऽपि स्यादित्याह —

किञ्चेति ।

मूर्धा ते विपतिष्यतीति मूर्ध्नि पतिते शापेन किमित्यग्निहोत्राग्निसंस्कारमपि शाकल्यो न प्राप्तवानित्याशङ्क्याऽऽह —

पूर्ववृत्तेति ।

तामेवाऽऽख्यायिकामनुक्रामति —

अष्टाध्याय्यामिति ।

अष्टाध्यायी बृहदारण्यकात्प्राचीना कर्मविषया । पुरे पुण्यक्षेत्रातिरिक्ते देशे । अतिथ्ये पुण्यतिथिशून्ये काले । अस्थीनि चनेत्यत्र चनशब्दोऽप्यर्थः । उपवादी परिभवकर्ता ।

तच्छब्दार्थमाह —

उत इति ।

किमितीयमाख्यायिकाऽत्र विद्याप्रकरणे सूचितेत्यशङ्क्याऽऽह —

सैषेति ।

ब्रह्मविदि विनीतेन भवितव्यमित्याचारः । महती हीयं ब्रह्मविद्या यत्तन्निष्ठावज्ञायामैहिकामुष्मिकविरोधः स्यादिति विद्यास्तुतिः ॥२६॥