साधर्म्ये सति वैधर्म्यं वक्तुमशक्यमित्याशयेनाऽऽह —
यद्यदीति ।
इदमपि साधर्म्यमेव किं न स्यादित्याशङ्क्याऽऽह —
यदेतस्मादिति ।
एतस्माद्विशेषणात्प्राग्यद्विशेषणमुक्तं तत्सर्वमुभयोः सामान्यमवगतमिति संबन्धः । वृक्णस्याङ्गस्येति शेषः । माभूत्तस्य प्ररोहणमिति चेन्नेत्याह —
भवितव्यं चेति ।
‘ध्रुवं जन्म मृतस्य च’ (भ. गी. २। २७)इति स्मृतेरित्यर्थः ॥४॥