जीवतो हि रेतो जायते स एव कुतो भवतीति विचार्यते न चासिद्धेनासिद्धस्य साधनं न च पुरुषान्तरादिति वाच्यमेकासिद्धावन्यतरप्रयोगानुपपत्तेरिति मन्वानो हेतुमाह —
यस्मादिति ।
वैधर्म्यान्तरमाह —
अपि चेति ।
काण्डरुहोऽपीत्यपेरर्थः ।
वैशब्दः प्रसिद्धिद्योतक इत्यभिप्रेत्याऽऽह —
वै वृक्ष इति ।
अञ्जसेत्यादेरर्थमुक्त्वा वाक्यार्थमाह —
धानातोऽपीति ॥५॥