बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४ ॥
यत् यदि वृक्षो वृक्णः छिन्नः रोहति पुनः पुनः प्ररोहति प्रादुर्भवति मूलात् पुनर्नवतरः पूर्वस्मादभिनवतरः ; यदेतस्माद्विशेषणात्प्राक् वनस्पतेः पुरुषस्य च, सर्वं सामान्यमवगतम् ; अयं तु वनस्पतौ विशेषो दृश्यते — यत् छिन्नस्य प्ररोहणम् ; न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते ; भवितव्यं च कुतश्चित्प्ररोहणेन ; तस्मात् वः पृच्छामि — मर्त्यः मनुष्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति, मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः ॥

साधर्म्ये सति वैधर्म्यं वक्तुमशक्यमित्याशयेनाऽऽह —

यद्यदीति ।

इदमपि साधर्म्यमेव किं न स्यादित्याशङ्क्याऽऽह —

यदेतस्मादिति ।

एतस्माद्विशेषणात्प्राग्यद्विशेषणमुक्तं तत्सर्वमुभयोः सामान्यमवगतमिति संबन्धः । वृक्णस्याङ्गस्येति शेषः । माभूत्तस्य प्ररोहणमिति चेन्नेत्याह —

भवितव्यं चेति ।

‘ध्रुवं जन्म मृतस्य च’ (भ. गी. २। २७)इति स्मृतेरित्यर्थः ॥४॥