बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
रेतस इति मा वोचत जीवतस्तत्प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ५ ॥
यदि चेदेवं वदथ — रेतसः प्ररोहतीति, मा वोचत मैवं वक्तुमर्हथ ; कस्मात् ? यस्मात् जीवतः पुरुषात् तत् रेतः प्रजायते, न मृतात् । अपि च धानारुहः धाना बीजम् , बीजरुहोऽपि वृक्षो भवति, न केवलं काण्डरुह एव ; इव - शब्दोऽनर्थकः ; वै वृक्षः अञ्जसा साक्षात् प्रेत्य मृत्वा सम्भवः धानातोऽपि प्रेत्य सम्भवो भवेत् अञ्जसा पुनर्वनस्पतेः ॥

जीवतो हि रेतो जायते स एव कुतो भवतीति विचार्यते न चासिद्धेनासिद्धस्य साधनं न च पुरुषान्तरादिति वाच्यमेकासिद्धावन्यतरप्रयोगानुपपत्तेरिति मन्वानो हेतुमाह —

यस्मादिति ।

वैधर्म्यान्तरमाह —

अपि चेति ।

काण्डरुहोऽपीत्यपेरर्थः ।

वैशब्दः प्रसिद्धिद्योतक इत्यभिप्रेत्याऽऽह —

वै वृक्ष इति ।

अञ्जसेत्यादेरर्थमुक्त्वा वाक्यार्थमाह —

धानातोऽपीति ॥५॥