बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६ ॥
यत् यदि सह मूलेन धानया वा आवृहेयुः उद्यच्छेयुः उत्पाटयेयुः वृक्षम् , न पुनराभवेत् पुनरागत्य न भवेत् । तस्माद्वः पृच्छामि — सर्वस्यैव जगतो मूलं मर्त्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति ॥

तथाऽपि कथं वैधर्म्यमित्याशङ्क्याऽऽह —

यद्यदीति ।

पुरुषस्यापि पुनरुत्पत्तिर्माभूदित्याशङ्क्य पूर्वोक्तं निगमयति —

तस्मादिति ॥६॥