बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥
जात एवेति, मन्यध्वं यदि, किमत्र प्रष्टव्यमिति — जनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य ; अयं तु जात एव अतोऽस्मिन्विषये प्रश्न एव नोपपद्यत इति चेत् — न ; किं तर्हि ? मृतः पुनरपि जायत एव अन्यथा अकृताभ्यागमकृतनाशप्रसङ्गात् ; अतो वः पृच्छामि — को न्वेनं मृतं पुनर्जनयेत् । तत् न विजज्ञुर्ब्राह्मणाः — यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः ; अतो ब्रह्मिष्ठत्वात् हृता गावः ; याज्ञवल्क्येन जिता ब्राह्मणाः । समाप्ता आख्यायिका । यज्जगतो मूलम् , येन च शब्देन साक्षाद्व्यपदिश्यते ब्रह्म, यत् याज्ञवल्क्यो ब्राह्मणान्पृष्टवान् , तत् स्वेन रूपेण श्रुतिरस्मभ्यमाह — विज्ञानं विज्ञप्तिः विज्ञानम् , तच्च आनन्दम् , न विषयविज्ञानवद्दुःखानुविद्धम् , किं तर्हि प्रसन्नं शिवमतुलमनायासं नित्यतृप्तमेकरसमित्यर्थः । किं तत् ब्रह्म उभयविशेषणवद्रातिः रातेः षष्ठ्यर्थे प्रथमा, धनस्येत्यर्थः ; धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ । किञ्च व्युत्थायैषणाभ्यः तस्मिन्नेव ब्रह्मणि तिष्ठति अकर्मकृत् , तत् ब्रह्म वेत्तीति तद्विच्च, तस्य — तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति ॥

स्वभाववादमुत्थापयति —

जात इति ।

इतिशब्दश्चोद्यसमाप्यर्थः ।

तदेव स्फुटयति —

जनिष्यमाणस्य हीति ।

न जायत इति भागेनोत्तरमाह —

नेत्यादिना ।

स्वभाववादे दोषमाह —

अन्यथेति ।

स्वभावासंभवे फलितमाह —

अत इति ।

उक्तमेव स्फुटयति —

जगत इति ।

ब्रह्मविदां श्रेष्ठत्वे याज्ञवल्क्यस्य सिद्धे फलितमाह —

अत इति ।

समाप्ताऽऽख्यायिकेति ।

ब्राह्मणाश्च सर्वे यथायथं जग्मुरित्यर्थः ।

विज्ञानादिवाक्यमुत्थापयति —

यज्जगत इतादिना ।

विज्ञानशब्दस्य करणादिविषयत्वं वारयति —

विज्ञप्तिरिति ।

आनन्दविशेषणस्य कृत्यं दर्शयति —

नेत्यादिना ।

प्रसन्नं दुःखहेतुना कामक्रोधादिना संबन्धरहितम् । शिवं कामादिकारणेनाज्ञानेनापि संबन्धशून्यम् ।

सातिशयत्वप्रयुक्तदुःखराहित्यमाह —

अतुलमिति ।

साधनसाध्यत्वादीनदुःखवैधुर्यमाह —

अनायासमिति ।

दुःखनिवृत्तिमात्रं सुखमिति पक्षं प्रतिक्षिपति —

नित्यतृप्तमिति ।

आनन्दोज्ञानमिति ब्रह्मण्याकारभेदमाशङ्क्याऽऽह —

एकरसमिति ।

फलमत उपपत्तेरिति न्यायेन ब्रह्मणो जगन्मूलत्वमाह —

रातिरित्यादिना ।

‘ब्रह्मसंस्थोऽमृतत्वमेति’इति श्रुत्यन्तरमाश्रित्य तस्यैव मुक्तोपसृप्यत्वमुपदिशति —

किञ्चेति ।

अक्षरव्याख्यानसमाप्तावितिशब्दः ।