बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥
अत्रेदं विचार्यते — आनन्दशब्दो लोके सुखवाची प्रसिद्धः ; अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते आनन्दं ब्रह्मेति ; श्रुत्यन्तरे च — ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । ९) ‘आनन्दं ब्रह्मणो विद्वान्’ (तै. उ. २ । ९ । १) ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति च ; ‘एष परम आनन्दः’ इत्येवमाद्याः ; संवेद्ये च सुखे आनन्दशब्दः प्रसिद्धः ; ब्रह्मानन्दश्च यदि संवेद्यः स्यात् , युक्ता एते ब्रह्मणि आनन्दशब्दाः । ननु च श्रुतिप्रामाण्यात् संवेद्यानन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यमिति — न, विरुद्धश्रुतिवाक्यदर्शनात् — सत्यम् , आनन्दशब्दो ब्रह्मणि श्रूयते ; विज्ञानप्रतिषेधश्च एकत्वे — ‘यत्र त्वस्य सर्वमात्मैवाभूत् , तत्केन कं पश्येत् , तत्केन किं विजानीयात्’ (बृ. उ. ४ । ५ । १५) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (छा. उ. ७ । २४ । १) ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद’ (बृ. उ. ४ । ३ । २१) इत्यादि ; विरुद्धश्रुतिवाक्यदर्शनात् तेन कर्तव्यो विचारः । तस्मात् युक्तं वेदवाक्यार्थनिर्णयाय विचारयितुम् । मोक्षवादिविप्रतिपत्तेश्च — साङ्ख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः ; अन्ये निरतिशयं सुखं स्वसंवेद्यमिति ॥

सच्चिदान्दात्मकं ब्रह्म विद्याविद्याभ्यां बन्धमोक्षास्पदमित्युक्तमिदानीं ब्रह्मानन्दे विचारमवतारयन्नविगीतमर्थमाह —

अत्रेति ।

तथाऽपि प्रकृते वाक्ये किमायातमिति तदाह —

अत्र चेति ।

न च केवलमत्रैवाऽऽनन्दशब्दो ब्रह्मविशेषणार्थकत्वेन श्रुतः किन्तु तैत्तिरीयकादावपीत्याह —

श्रुत्यन्तरे चेति ।

ब्रह्मणो विशेषणत्वेनाऽऽनन्दशब्दः श्रूयत इति संबन्धः ।

अन्याः श्रूतीरेवोदाहरति —

आनन्द इत्यादिना ।

एवमाद्याः श्रुतय इति शेषः ।

तथाऽपि कथं विचारसिद्धिस्तत्राऽऽह —

संवेद्य इति ।

लोकप्रसिद्धेरद्वैतश्रुतेश्च ब्रह्मण्यानन्दः संवेद्योऽसंवेद्यो वेति विचारः कर्तव्य इत्यर्थः ।

उभयत्र फलं दर्शयति —

ब्रह्माऽऽनन्दश्चेति ।

अन्यथा लोकवेदयोः शब्दार्थभेदादविशिष्टस्तु वाक्यार्थ इति न्यायविरोधोऽसंवेद्यत्वे पुनरद्वैतश्रुतिरविरुद्धेति भावः ।

विचारमाक्षिपति —

नन्विति ।

विरुद्धश्रुत्यर्थनिर्णयार्थं विचारकर्तव्यतां दर्शयति —

नेति ।

संग्रहवाक्यं विवृणोति —

सत्यमित्यादिना ।

एकत्वे सति विज्ञानप्रतिषेधश्रुतिमेवोदाहरति —

यत्रेत्यादिना ।

इत्यादिश्रवणमिति शेषः ।

फलितमाह —

विरुद्धश्रुतीति ।

श्रुतिविप्रतिपत्तेर्विचारकर्तव्यतामुपसंहरति —

तस्मादिति ।

तत्रैव हेत्वन्तरमाह —

मोक्षेति ।

तामेव विप्रतिपत्तिं विवृणोति —

साङ्ख्या इति ।