विमर्शपूर्वकं पूर्वपक्षं गृह्णाति —
किं तावदित्यादिना ।
आनन्दादिश्रवणाद्विज्ञानमानन्दं ब्रह्मेति श्रुतेर्मोक्षे सुखं संवेद्यमिति युक्तमिति संबन्धः ।
तत्रैव वाक्यान्तराण्युदाहरति —
जक्षदित्यादिना ।
पूर्वपक्षमाक्षिपति —
नन्विति ।
मोक्षे चेदिष्यते सुखज्ञानं तर्हि तदनेककारकसाध्यं वाच्यं क्रियात्वात्पाकादिवत्सर्वैकत्वे च मोक्षे कारकविभागाभावान्न सुखसंवेदनं संभवतीत्यर्थः ।
जन्यस्य कारकापेक्षायामपि सुखज्ञानस्याजन्यत्वान्न तदपेक्षेत्याऽऽशङ्क्याह —
क्रियायाश्चेति ।
या क्रिया साऽनेककारकसाध्येति व्याप्तेर्गमनादाववगतत्वाज्ज्ञानस्यापि धात्वर्थत्वेन क्रियात्वादनेककारकसाध्यता सिद्धैवेत्यर्थः ।
श्रुतिप्रामाण्यमाश्रित्य पूर्ववादी परिहरति —
नैष दोष इति ।
तदेव स्फुटयति —
विज्ञानमिति ।
अद्वये ब्रह्मणि श्रुतिप्रामाण्यादानन्दज्ञानमुक्तमाक्षिपति —
नन्विति ।
अद्वैतश्रुतिविरोधाद्ब्रह्मणि विज्ञानक्रियाकारकविभागापेक्षा नोपपद्यते । न हि ‘विज्ञानमानन्दमि’ (बृ. उ. ३ । ९ । २८) त्यादिवचनानि मानान्तरविरोधेन विज्ञानक्रियां ब्रह्मण्युत्पादयन्ति तेषां ज्ञापकत्वाज्ज्ञापकस्य च अविरोधापेक्षत्वादन्यथाऽतिप्रसंगादित्यर्थः ।
लौकिकज्ञानस्य क्रियात्वेऽपि मोक्षसुखज्ञानं क्रियैव न भवति । तन्न । विज्ञानादिवाक्यस्याद्वैतश्रुतिविरोधोऽस्तीत्याशङ्क्याऽऽह —
न चेति ।
पयः पावकयोस्सर्वत्रैकरूप्यवद्विज्ञानस्यापि लोकवेदयोरेकरूपत्वमेवेति भावः ।
मानान्तरविरोधादात्मन्यानन्दज्ञानस्य सत्त्वमेव वा निषिध्यते तस्य क्रियात्वं वा निराक्रियते ? तत्राऽऽद्यं दूषयति ।
नेत्यादिना ।
तदेव स्पष्टयति —
न विज्ञानमिति ।
सुखज्ञानस्य गुणत्वाङ्गीकारात्क्रियात्वनिराकरणमिष्टमेवेति मत्वाऽऽह —
अनुभूयतेत्विति ।
अनुभवमेवाभिनयति —
सुख्यहमिति ।
तथाऽपि श्रुतिविरोधः स्यादित्याशङ्क्य प्रत्यक्षानुसरेण साऽपि नेतव्येत्याशयेनाऽऽह —
तस्मादिति ।
आत्मन्यानन्दज्ञानस्य क्रियात्वानङ्गीकारात्कारकभेदापेक्षाभावादित्यर्थः । गुणत्वपक्षे च प्रत्यक्षस्यानुगुणत्वादागमस्य विरोधिनस्तदनुसारेण नेत्यत्वादविरुद्धागमस्य भूयस्त्वादित्यतिशयः । अविरुद्धार्थता विज्ञानादिश्रुतेरिति शेषः ।
गुणगुणिभावेऽपि नाद्वैतश्रुतिः शक्या नेतुमित्याशङ्क्य स्ववेद्यत्वपक्षमाश्रित्याऽऽह —
तस्मादानन्दमिति ।
यथाकथञ्चिद्ब्रह्मण्यानन्दस्य वेद्यत्वे श्रुतीनामानुगुण्यमस्तीत्याह —
तथेति ।