आनन्दो वेद्यो ब्रह्मणीति चोदिते सिद्धान्तमाह —
नेति ।
आगन्तुकमनागन्तुकं वा ज्ञानं मुक्तावानन्दं गोचरयति ? नाऽऽद्य इत्याह —
कार्येति ।
अनुपपत्तिमेव स्फोरयति —
शरीरेति ।
कार्यकरणयोरभावेऽपि मोक्षे ब्रह्मानन्दज्ञानं जनिष्यते संसारे हि हेत्वपेक्षेत्याशङ्क्याऽऽह —
देहादीति ।
द्वितीयं दूषयति —
एकत्वेति ।
न हि ब्रह्मस्वरूपज्ञानेनैव वेद्यानन्दरूपं भवितुमुत्सहते विषयविषयिणोरेकत्वविरोधात्ततश्चानागन्तुकमपि ज्ञानं मुक्तौ नाऽऽनन्दमधिकरोतीत्यर्थः ।
किञ्च ब्रह्म वा मुक्तो वा संसारी वा ब्रह्मानन्दं गोचरयेत्तत्राऽऽद्यमनुवदति —
परं चेदिति ।
तस्मिन्पक्षे न ब्रह्म स्वरूपानन्दं वेत्ति तेनैक्यादेकत्र विषयविषयित्वानुपपत्तेरुक्तत्वादिति दूषयति —
तन्नेति ।
नापि संसारी ब्रह्मानन्दं गोचरयति स खल्वनिवृत्ते संसारे संसारिणमात्मानमभिमन्यमानो न ब्रह्मानन्दमाकलयितुमलं संसारे निवृत्ते तु ततो विनिर्मुक्तो ब्रह्मस्वाभाव्यं प्रतिपद्यमानस्तदानन्दं तद्वदेव विषयीकर्तुं नार्हतीति तृतीयं प्रत्याह —
संसार्यपीति ।
मुक्तोऽपि ब्रह्मणोऽभिन्नो भिन्नो वेति विकल्प्याभेदपक्षमनुभाषते —
जलेति ।
ब्रह्माभिन्नस्य मुक्तस्य तदानन्दविषयीकरणमुक्तन्यायेन निरस्यति —
तदेति ।
भेदपक्षमनुवदति —
अथेति ।
ब्रह्मानन्दं प्रत्यगात्मानमिति संबन्धः ।
वेदनप्रकारमभिनयति —
अहमिति ।
तत्त्वमस्यादिश्रुतिविरोधेन निराकरोति —
तदेति ।
मुक्तो ब्रह्मणः सकाशाद्भिन्नोऽभिन्नो वा मा भूद्भिन्नाभिन्नस्तु स्यादित्याशङ्क्याऽऽह —
तृतीयेति ।
सर्वत्र भेदाभेदवादस्य दूषितत्वादित्यर्थः ।
ब्रह्मणः स्वानन्दस्यावेद्यत्वे हेत्वन्तरमाह —
किञ्चान्यदिति ।
तदेवोपपादयति —
निरन्तरं चेदिति ।
आख्यातप्रयोगस्य तर्हि कुत्रार्थवत्त्वं तत्राऽऽह —
अतद्विज्ञानेति ।
देवदत्तो हि बुद्धिपूर्वकारित्वावस्थायां स्वात्मानमन्यं विविच्य जानाति नान्यदेत्युभयथात्वदर्शनात्तत्राऽऽख्यातप्रयोगो युज्यते । नैवं ब्रह्मण्यज्ञानप्रसंगोऽस्ति । नित्यज्ञानस्वभावत्वात्तथा च तत्राऽऽख्यातप्रयोगे नार्थवानित्यर्थः ।
ब्रह्मण्याख्यातप्रयोगानर्थक्यं दृष्टान्तेन स्पष्टयति —
न हीति ।
प्रत्यगात्मनि नित्यज्ञानत्वासिद्धिं शङ्कयति —
अथेति ।
विच्छिन्नमिति क्रियाविशेषणम् ।
परिहरति —
विज्ञानस्येति ।
आत्मनो विज्ञानस्य च्छिद्रमन्तरालमसत्त्वावस्था तदाऽपि विज्ञानमस्ति चेत्तस्यान्यविषयत्वप्रसंगस्तथा च ‘यत्रान्यत्पश्यति’(छा. उ. ७ । २४ । १) इत्यादिश्रुतेरात्मनो मर्त्यत्वापत्तिर्न चेत्तदा विज्ञानं तदा पाषाणवदचेतनत्वं विज्ञप्तिरूपत्वानङ्गीकारादित्यर्थः ।
आत्मनोऽनित्यज्ञानवत्त्वे दोषान्तरमाह —
आत्मनश्चेति ।
आनन्दज्ञाने ब्रह्मणि विषयविषयित्वायोगश्चेत्कथं विज्ञानादिवाक्यमित्याशङ्क्योपसंहरति —
तस्मादिति ।
ब्रह्मण्यानन्दस्यावेद्यत्वे श्रुतिविरोधमुक्तं स्मारयति —
जक्षदिति ।
सर्वत्राऽऽत्मनो मुक्तस्यैक्ये सति योग्यादिषु यथा जक्षणादि प्राप्तं तथैव तदनुवादित्वादस्याः श्रुतेर्न विरोधोऽस्तीति परिहरति —
नेत्यादिना ।
तदेव प्रपञ्चयति —
मुक्तस्येति ।
किमनुवादे फलमिति चेत्तदाह —
तत्तस्येति ।
मुक्तस्य योग्यादिषु सर्वत्राऽऽत्मभावादेव तत्र प्राप्तं जक्षणाद्यत्र मुक्तिस्तुतयेऽनूद्यते तन्नानुवादवैयर्थ्यमित्यर्थः ।
विदुषस्सार्वात्म्येन योग्यादिषु प्राप्तजक्षणाद्यनुवादे स्यादतिप्रसक्तिरिति शङ्कते —
यथाप्राप्तेति ।
अतिप्रसंगमेव प्रकटयति —
योग्यादिष्विति ।
अविद्यात्मकनामरूपविरचितोपाधिद्वयसंबन्धनिबन्धनमिथ्याज्ञानाधीनत्वादात्मनि दुःखित्वादिप्रतीतेर्न तत्र वस्तुतो दुःखित्वं न च जक्षणाद्यपि वास्तवमाविद्यस्यैव मुक्तिस्तुतयेऽनुवादाद्दुःखित्वस्य हि नानुवादोऽतिहीनत्वप्राप्तेरिति परिहरति —
नेत्यादिना ।
यत्तु विरुद्धश्रुतिदृष्टेर्नाऽऽगमार्थो निर्णीतो भवतीति तत्राऽऽह —
विरुद्धेति ।
वेद्यत्वावेद्यत्वादिश्रुतीनां सोपाधिकनिरुपाधिकविषयत्वेन मधुकाण्डे व्यवस्थोक्तेत्यर्थः ।
ब्राह्मणार्थमुपसंहरति —
तस्मादिति ।
ब्रह्मण्यानन्दस्य वेद्यताया दुर्निरूपत्वं तच्छब्दार्थः । यथैषोऽस्येत्यत्र भेदो न विवक्षितः सर्वात्मभावस्य प्रकृतत्वात्तथा विज्ञानादिवाक्येष्वानन्दस्य वेद्यता न विवक्षिता । उक्तरीत्या तद्वेद्यताया दुष्प्रतिपादत्वात्तस्मादनतिशयानन्दं चिदेकतानं वस्तु सिद्धमित्यर्थः ॥७॥२८॥