पूर्वस्मिन्नध्याये जल्पन्यायेन सच्चिदानन्दं ब्रह्म निर्धारितम् । इदानीं वादन्यायेन तदेव निर्धारितुमध्यायान्तरमवतारयति —
जनक इति ।
तत्र ब्राह्मणद्वयस्यावान्तरसंबन्धं प्रतिजानीते —
अस्येति।
तमेव वक्तुं वृत्तं कीर्तयति —
शारीराद्यानिति।
निरुह्य प्रत्युह्येति विस्तार्य व्यवहारमापाद्येत्यर्थः । प्रत्युह्य हृदये पुनरुपसंहृत्येति यावत् । जगदात्मनीत्यव्याकृतोक्तिः । सूत्रशब्देन तत्कारणं गृह्यते । अतिक्रमणं तद्गुणदोषासंस्पृष्टत्वम् ।
अनन्तरब्राह्मणद्वयतात्पर्यमाह —
तस्यैवेति ।
वागाद्यधिष्ठात्रीष्वग्न्यादिदेवतासु ब्रह्मदृष्टिद्वारेत्यर्थः । पूर्वोक्तान्वयव्यतिरेकादिसाधनापेक्षयाऽन्तरशब्दः । आचार्यवता श्रद्धादिसंपन्नेन विद्या लब्धव्येत्याचारः । अप्राप्तप्राप्तिर्योगः प्राप्तस्य रक्षणं क्षेम इति विभागः । भारतस्य वर्षस्य हिमवत्सेतुपर्यन्तस्य देशस्येति यावत् ॥१॥