बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्ते कश्चिदब्रवीत्तछृणवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राडिति होवाच । वाचा वै सम्राड्बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्ते वाग्वै सम्राट्परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ २ ॥
किं तु यत् ते तुभ्यम् , कश्चित् अब्रवीत् आचार्यः ; अनेकाचार्यसेवी हि भवान् ; तच्छृणवामेति । इतर आह — अब्रवीत् उक्तवान् मे मम आचार्यः, जित्वा नामतः, शिलिनस्यापत्यं शैलिनिः — वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति । आहेतरः — यथा मातृमान् माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्री अनुशासनकर्त्री स मातृमान् ; अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान् ; उपनयनादूर्ध्वम् आ समावर्तनात् आचार्यो यस्यानुशास्ता स आचार्यवान् ; एवं शुद्धित्रयहेतुसंयुक्तः स साक्षादाचार्यः स्वयं न कदाचिदपि प्रामाण्याद्व्यभिचरति ; स यथा ब्रूयाच्छिष्याय तथासौ जित्वा शैलिनिरुक्तवान् — वाग्वै ब्रह्मेति ; अवदतो हि किं स्यादिति — न हि मूकस्य इहार्थम् अमुत्रार्थं वा किञ्चन स्यात् । किं तु अब्रवीत् उक्तवान् ते तुभ्यम् तस्य ब्रह्मणः आयतनं प्रतिष्ठां च — आयतनं नाम शरीरम् ; प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः । आहेतरः — न मेऽब्रवीदिति । इतर आह — यद्येवम् एकपात् वै एतत् , एकः पादो यस्य ब्रह्मणः तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यम् उपास्यमानमिति न फलाय भवतीत्यर्थः । यद्येवम् , स त्वं विद्वान्सन् नः अस्मभ्यं ब्रूहि हे याज्ञवल्क्येति । स च आह — वागेव आयतनम् , वाग्देवस्य ब्रह्मणः वागेव करणम् आयतनं शरीरम् , आकाशः अव्याकृताख्यः प्रतिष्ठा उत्पत्तिस्थितिलयकालेषु । प्रज्ञेत्येनदुपासीत — प्रज्ञेतीयमुपनिषत् ब्रह्मणश्चतुर्थः पादः — प्रज्ञेति कृत्वा एनत् ब्रह्म उपासीत । का प्रज्ञता याज्ञवल्क्य, किं स्वयमेव प्रज्ञा, उत प्रज्ञानिमित्ता — यथा आयतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते, तद्वत्किम् । न ; कथं तर्हि ? वागेव, सम्राट् , इति होवाच ; वागेव प्रज्ञेति ह उवाच उक्तवान् , न व्यतिरिक्ता प्रज्ञेति । कथं पुनर्वागेव प्रज्ञेति उच्यते — वाचा वै, सम्राट् , बन्धुः प्रज्ञायते — अस्माकं बन्धुरित्युक्ते प्रज्ञायते बन्धुः ; तथा ऋग्वेदादि, इष्टं यागनिमित्तं धर्मजातम् , हुतं होमनिमित्तं च, आशितम् अन्नदाननिमित्तम् , पायितं पानदाननिमित्तम् , अयं च लोकः, इदं च जन्म, परश्च लोकः, प्रतिपत्तव्यं च जन्म, सर्वाणि च भूतानि — वाचैव, सम्राट् , प्रज्ञायन्ते ; अतो वाग्वै, सम्राट् , परमं ब्रह्म । नैनं यथोक्तब्रह्मविदं वाग्जहाति ; सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिः ; इह देवो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येति अपिगच्छति, य एवं विद्वानेतदुपास्ते । विद्यानिष्क्रयार्थं हस्तितुल्य ऋषभो हस्त्यृषभः यस्मिन्गोसहस्रे तत् हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः — अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्यात् धनं न हरेतेति मे मम पिता — अमन्यत ; ममाप्ययमेवाभिप्रायः ॥

यत्र राजानं प्रति प्रश्नमुत्थापयति —

किन्त्विति ।

कश्चिदिति विशेषणस्य तात्पर्यमाह —

अनेकेति।

प्रामाण्यमाप्तत्वम् ।

यथोक्तार्थानुमोदने युक्तिमाह —

न हीति ।

यथोक्तब्रह्मविद्यया कृतकृत्यत्वं मन्वानं राजानं प्रत्याह —

किन्त्विति ।

आयतनप्रतिष्ठयोरेकत्वात्पुनरुक्तिमाशङ्क्य विभजते —

आयतनं नामेति।

एकपादत्वेऽपि ब्रह्मणस्तदुपासनादिष्टसिद्धिरिति चेन्नेत्याह —

त्रिभिरिति  ।

ब्रूहि प्रतिष्ठामायतनं चेति शेषः ।

प्रश्नेमेव विवृणोति —

किं स्वयमेवेति ।

प्रज्ञानिमित्तं यस्या वाचः सा तथा ।

द्वितीयपक्षं विशदयति —

यथेति ।

व्यतिरेकपक्षं निषेधति —

नेति ।

आकाङ्क्षापूर्वकं पक्षान्तरं गृह्णाति —

कथं तर्हीति ।

बलिदानमुपहारसमर्पणम् । आदिशब्देन स्रक्चन्दनवस्त्रालङ्कारादिग्रहः । विद्यानिष्क्रयार्थमुवाचेति संबन्धः ।

पितुरेतन्मतमस्तु तव किमायातं तदाह —

ममापीति ॥२॥