बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥
यदेव ते कश्चिदब्रवीत् उदङ्को नामतः शुल्बस्यापत्यं शौल्बायनः अब्रवीत् ; प्राणो वै ब्रह्मेति, प्राणो वायुर्देवता — पूर्ववत् । प्राण एव आयतनम् आकाशः प्रतिष्ठा ; उपनिषत् — प्रियमित्येनदुपासीत । कथं पुनः प्रियत्वम् ? प्राणस्य वै, हे सम्राट् , कामाय प्राणस्यार्थाय अयाज्यं याजयति पतितादिकमपि ; अप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि ; तत्र तस्यां दिशि वधनिमित्तमाशङ्कम् — वधाशङ्केत्यर्थः — यां दिशमेति तस्कराद्याकीर्णां च, तस्यां दिशि वधाशङ्का ; तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति, प्राणस्यैव, सम्राट् , कामाय । तस्मात्प्राणो वै, सम्राट् , परमं ब्रह्म ; नैनं प्राणो जहाति ; समानमन्यत् ॥

यथा वागग्निर्देवता तद्वदित्याह —

पूर्ववदिति ।

प्राण एवाऽऽयतनमित्यत्र प्राणशब्दः करणविषयः । पतितादिकमित्यादिपदमकुलीनग्रहार्थम् । उग्रो जातिविशेषः । आदिशब्देन म्लेच्छगणो गृह्यते ॥३॥