स्वभाववादमुत्थापयति —
जात इति ।
इतिशब्दश्चोद्यसमाप्यर्थः ।
तदेव स्फुटयति —
जनिष्यमाणस्य हीति ।
न जायत इति भागेनोत्तरमाह —
नेत्यादिना ।
स्वभाववादे दोषमाह —
अन्यथेति ।
स्वभावासंभवे फलितमाह —
अत इति ।
उक्तमेव स्फुटयति —
जगत इति ।
ब्रह्मविदां श्रेष्ठत्वे याज्ञवल्क्यस्य सिद्धे फलितमाह —
अत इति ।
समाप्ताऽऽख्यायिकेति ।
ब्राह्मणाश्च सर्वे यथायथं जग्मुरित्यर्थः ।
विज्ञानादिवाक्यमुत्थापयति —
यज्जगत इतादिना ।
विज्ञानशब्दस्य करणादिविषयत्वं वारयति —
विज्ञप्तिरिति ।
आनन्दविशेषणस्य कृत्यं दर्शयति —
नेत्यादिना ।
प्रसन्नं दुःखहेतुना कामक्रोधादिना संबन्धरहितम् । शिवं कामादिकारणेनाज्ञानेनापि संबन्धशून्यम् ।
सातिशयत्वप्रयुक्तदुःखराहित्यमाह —
अतुलमिति ।
साधनसाध्यत्वादीनदुःखवैधुर्यमाह —
अनायासमिति ।
दुःखनिवृत्तिमात्रं सुखमिति पक्षं प्रतिक्षिपति —
नित्यतृप्तमिति ।
आनन्दोज्ञानमिति ब्रह्मण्याकारभेदमाशङ्क्याऽऽह —
एकरसमिति ।
फलमत उपपत्तेरिति न्यायेन ब्रह्मणो जगन्मूलत्वमाह —
रातिरित्यादिना ।
‘ब्रह्मसंस्थोऽमृतत्वमेति’इति श्रुत्यन्तरमाश्रित्य तस्यैव मुक्तोपसृप्यत्वमुपदिशति —
किञ्चेति ।
अक्षरव्याख्यानसमाप्तावितिशब्दः ।